पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ७३-७८]
११५
आक्षिप्तदूषणानां पार्वत्या परिहरणम्

 संप्रति 'अमङ्गलाभ्यासरतिम्' (५।६५) इत्याद्युक्तं दूषणजातं 'विपत्प्रतीकार- परेण' इत्यादिभिः षड्भिः श्लोकैः परिहर्तुमार्भते ‌- ‌

 विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा ।
 जगच्छरण्यस्य निराशिषः सतः किमेभिराशोपहतात्मव्रत्तिभिः ७६

 विपदिति ॥ विपत्प्रतीकारपरेण, अनर्थपरिहारार्थनेत्यर्थः । 'उपसर्गस्य घन्यमनुष्ये बहुलम्' (पा.६।३।१२२) इति दीर्घः । भूरिसमुत्सुकेनैश्वर्यकामेन वा मङ्गलं गन्धमाल्यादिकं निषेव्यते । शरणे रक्षणे साधुः शरण्यः । 'तत्र साधुः' (पा.४।४।९८) इति यत्प्रत्ययः । शरणं गृहरक्षित्रोः' इत्यमरः । जगतः शरण्यस्तस्य जगच्छरण्यस्य निराशिषो निरभिलाषस्य सतः शिवस्य । 'आशीरुरगदंष्ट्रायां विप्रवाक्याभिलाषयोः' इति शाश्वतः । आशया तृष्णयोपहता दूषितात्मवृत्तिर- न्तःकरणवृत्तिर्येषां तैरेभिर्मङ्गलैः किम् ? वृथेत्यर्थः । पूर्व 'मंङ्गलम्' इत्येकवचनस्य जात्यभिप्रायत्वात् 'एभिः' इति बहुवचनेन परामर्शों न विरुध्यते । इष्टावास्य- निष्टपरिहारार्थिनो हि मङ्गलाचारनिर्बन्धः । तदुभयासंसृष्टस्य तु यथाकथंचिदा- स्ताम् । को दोष इत्यर्थः । एतेन 'अमङ्गलाभ्यासरतिम्' (५।६५) इत्युक्तं प्रत्युक्तम् ॥ ७६ ॥

 अकिंचनः सन्प्रभवः स संपदां त्रिलोकनाथः पितृसङ्मगोचरः।
 स भीमरूपः शिव इत्युदीर्यते न सन्ति याथार्थ्यविदः पिनाकिनः॥

 अकिंचनेति ॥ स हरः। न विद्यते किंचन द्रव्यं यस्य सोऽकिंचनो दरिद्रः सन् संपदां प्रभवत्यस्मादिति प्रभवः कारणम् । पितृसङ्मगोचरः श्मशानाश्रयः सन् त्रयाणां लोकानां नाथः तद्धितार्थ-'(पा.२।१९५१) इत्यादिनोत्तरपदसमासः । स देवो भीमरूपो भयंकराकारः सन् शिवः सौम्यरूप इत्युदीर्यत उच्यते । अतः पिनाकिनो हरस्य यथाभूतोऽर्थः यथार्थस्तस्य भावो याथार्थ्य तत्वं तस्य विदो न सन्ति, लोकोत्तरमहिन्ना निर्लेपस्य यथाकथंचिदवस्थानं न दोषायेति भावः । एतेन 'अवस्तुनिर्बन्धपरे' (५।६६) इति श्लोकोक्तं परिहृतं वेदितव्यम् ॥ ७७ ॥ देवस्य लौकिकमलौकिकं च प्रसाधनं नास्तीत्याशयेनाह-

 विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा ।
 कपालि वा स्यादथवेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः ।। ७८ ॥


पाठा०-१ स लोकनाथः. २ अथ चन्द्रशेखरम्.

टिप्प०-1 अनेन 'दिगंबरत्वेन निवेदितं वसु' (५।७२) इत्याक्षिप्तं परिहृतम्।