पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ६८-७२]
११३
बटुना शिव-पार्वत्योरननुरूपत्ववर्णनम्

भविष्यत्युपहसिष्यति यत् । इयमिति पूर्वेण संबन्धः । स्मेरेति 'नमिकम्पिस्म्य- जस-' (पा. ३।२।१६७) इत्यादिना रप्रत्ययः ॥ ७० ॥

 द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया पिनाकिनः ।
 कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ७१

 द्वयमिति ॥ पिनाकिन ईश्वरस्य समागमप्रार्थनया प्राप्तिकामनया, क्रिय- माणयेति शेषः। संप्रति द्वयं शोचनीयतां शोच्यत्वं गतम् । किं तदाह-सा प्रागेव हरशिरोगता । अत्र सेति प्रसिद्ध्यर्थत्वान्न यच्छब्दापेक्षा । तदुक्तं काव्य- प्रकाशे-'प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छन्दो यदुपादानं नापेक्षते' इति । कान्तिमती । नित्ययोगे मतुप् । कलावतश्चन्द्रस्य कला षोडशो भागश्चास्य लोकस्य नेत्रकौमुदी, नेत्रानन्दिनीत्यर्थः, स्वं च । कान्तिमतीव-नेत्रकौमुदीत्व- विशेषणयोरुभयत्राप्यन्वयः । प्रागेकैव शोच्या, संप्रति तु त्वमप्यपरेति द्वयं शोच्य मिति पिण्डितार्थः । शोच्यत्वं च निकृष्टाश्रयणादिति भावः ॥ ७१ ॥ 'कन्या वरयते रूपं माता वित्तं पिता श्रुतम् । बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥' इति लोकानामाभाषणम् । तत्र किंचिदपि नास्तीत्याह-

 वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु ।
 वरेषु यद्धालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने॥७२॥

 वपुरिति ॥ वपुः शरीरं तावदस्य विरूपाणि विकृतरूपाण्यक्षीणि नेत्राणि यस्य तद्विरूपाक्षम् । 'बहुदीही सक्थ्यक्ष्णोः स्वाङ्गात्पचच्' (पा. ५।४।११३) इति पच्प्रत्ययः । वैरूप्यं च त्रिनेत्रत्वादिति क्षीरस्वामी। अतो न सौन्दर्यवार्तापीत्यर्थः । अलक्ष्यमज्ञातं जन्म यस्य तस्य भावस्तत्ता, कुलमपि न ज्ञायत इत्यर्थः । 'अलक्षिता जनिः' इति पाठे-जनिरुत्पत्तिरलक्षिता न ज्ञाता । 'जनिरुत्पत्ति- रुद्भवः' इत्यमरः । वसु वित्तं दिगम्बरत्वेनैव निवेदितम् , नास्तीति ज्ञापितमित्यर्थः। यदि चित्तं भवति तदा कथं दिगम्बरो भवति ? मतो ज्ञेयं निर्धनोऽयमिति । किं बहुना, हे बालमृगाक्षि पार्वति ! वरेषु वोध्रढृषु। 'वरौ जामातृवोढारौ' इति विश्वः । यद्रूपवित्तादिकं मृग्यते कन्यातद्वन्धुभिरन्विष्यते तत्रिलोचने त्र्यम्बके व्यस्तम् , एकमपि समस्तं नाभूदिति भावः । अस्ति किम् ? नास्त्येवेत्यर्थः॥७२॥


पाठा०-१ कपालिनः.

८ कु० सं०