पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
[ सर्गः ५
कुमारसंभवे

क्षायां विशेषणसमासः। किंतु नैष्टिकत्वविशेषणेन कामिस्वविरोधः । अथवा देवस्यालौकिकमहिमत्वादुभयं तात्त्विकमिति न विरोधः। अव्यञ्जितं हर्षलक्षणं मुखरागादि हर्षलिङ्गं यस्य तथाभूतः सन् । अयि गौरि ! 'अयि' इति कोमला- मन्त्रणे । इदं त्वत्सखीभाषितमेवम् ? सत्यं किमित्यर्थः । परिहासः केलिर्वा । 'द्रवकेलिपरीहासाः' इत्यमरः । इत्येवमुमामपृच्छत्पृष्टवान् ॥ ६२ ॥

 अथाग्रहस्ते मुकुलीकृताङ्गुला समर्पयन्ती स्फटिकाक्ष[१]मालिकाम् ।
 कथंचिदद्रस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत ॥ ६३॥

 अथेति ॥ अथानन्तरमदेस्तनया पार्वती मुकुलीकृताङ्गुलौ संपुटीकृताङ्गुलौ। अग्रश्वासौ हस्तश्चेति समानाधिकरणसमासः । 'हस्ताग्राग्रहस्तयोर्गुणगुणिनोर्भैंदा- भेदात्' इति वामनः । तस्मिन्नग्रहस्ते स्फटिकानामक्षमालिकां जपमालिकामर्पय- न्त्यामुञ्चती कथंचिन्महता कष्टेन चिरव्यवस्थापितवाक् चिरेण स्वीकृतवाक् । एतेन लज्जोपरोधो व्यज्यते । मिताक्षरं परिमितवर्णं यथा तथाऽभाषत बभाषे ॥ ६३॥

 किमुवाचेत्याह--

 यथा श्रुतं वेदविदांवर ! त्वया जनोऽयमुच्चैःपदलङ्घनोत्सुकः ।
 तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ॥६४॥

 यथेति ॥ हे वेदविदांवर वैदिकश्रेष्ठ ! त्वया यथा श्रुतं सम्यक्श्रुतम् । श्रुतार्थमेवाह-अयं जनः । स्वयमित्यर्थः । उच्चैःपदस्य शिवलाभरूपोन्नतस्था- नस्य लङ्घन आक्रमणे उत्सुकः । किमत्रायुक्तमित्यत्राह-इदं तपस्तदवाप्तेस्त- स्योच्चैःपदस्यावाप्तेः प्राप्तेः साधनं किल । किलेत्यलीके । अतितुच्छत्वादसाधकमे- वेत्यर्थः । तर्हि त्यज्यतामित्याशङ्क्य दुराशा मां न मुञ्चतीत्याशयेनाह-मनो- रथानां कामानामगतिरविषयो न विद्यते । न हि स्वशक्तिपर्यालोचनया कामाः प्रवर्तन्त इति भावः ॥ ६४ ॥

 अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुनरेव वर्तसे |
 अमङ्गलाभ्यासर्[२] तिं विचिन्त्य तं तवानुवृत्तिं न च कर्तुमुत्सहे ॥६५॥

 अथेति ॥ अथ वर्णी ब्रह्मचारी । 'वर्णिनो ब्रह्मचारिणः' इत्यमरः । आह, उवाचेत्यर्थः । 'आहेति भूतार्थे लट्प्रयोगो भ्रान्तिमूलः' (काव्या. सू. ५।२।४३)


पाठा०--१ मण्डलम्. २ रतम्.


  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः