पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५८-६२]
१०९
सखीभाषितं सत्यं किमिति बटुप्रश्नः

मृगयमाणा यदा नापश्यत्तदेयं पार्वती गुरोः पितुरनुज्ञयास्माभिः सह तपसे तपश्चरितुं तपोवनं प्रपन्ना प्राप्ता ॥ ५९ ॥

 द्रुमेषु सख्या कृतजन्ममु स्वयं फलं तपःसाक्षिषु [१]दृष्टमेष्वपि ।
 न च प्ररोहाभिमुखोऽपि[२]दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः॥

 द्रुमेष्विति ॥ सख्या पार्वत्या स्वयं कृतं जन्म येषां तेषु । स्वयं रोपिते- ष्वित्यर्थः । तपसः साक्षिषु साक्षाद्द्रष्ट्टप्वेषु द्रुमेष्वपि फलं दृष्टं लब्धम् । जनित- मित्यर्थः । अस्याः पार्वत्याः शशिमौलिमंश्रयश्चन्द्रशेखरविषयो मनोरथस्तु प्ररोहाभिमुखोऽङ्कुरोन्मुखोऽपि न दृश्यते । 'प्ररोहस्त्वङ्कुरोङ्करः' इति वैजयन्ती । स्वयं रोपितवृक्षफलकालेऽप्यस्या मनोरथस्य नाङ्कुरोदयोऽप्यस्ति । फलाशा तु दूरापाम्तेत्यर्थः ॥ ६०॥

 न वेद्मि म प्रार्थितदुर्लभः कदा सखीभि[३]रस्रोत्तरमीक्षितामिमाम् ।
 तपःकृशामभ्युपपत्स्यते सखीं वृपेव सीतां तदवग्रहक्षताम् ।।६१॥

 न वेद्मीति ॥ प्रार्थितः सन्दुर्लभः प्रार्थितदुर्लभः स देवम्तपःकृशां तपसा कृशां क्षीणामत एव सखीभिरस्रोत्तरमश्रुप्रधानं यथा भवति तथेक्षितामिमां नः सखीं तस्येन्द्रस्यावग्रहेणानावृष्ट्या क्षतां पीडिताम् । 'वृष्टिर्वर्षं तद्विधातेऽवग्राहा- वग्रही समौ' इत्यमरः। अवग्रहो वर्षप्रतिबन्ध इत्यर्थः । सीतां कृष्टभुवम् । 'सीता लाङ्गालपद्धतिः' इत्यमरः । वृषा वासव इव । 'वासवो वृत्रहा वृषा' इत्यमरः । कदाभ्युपपत्स्यते कदानुग्रहीप्यति न वेद्मि । अत्र वाक्यार्थः कर्म । ['तदवग्रहक्षताम्' इत्यत्र 'अवग्रहक्षताम्' इत्यनेनैव गतार्थत्वे तत्पदस्य वैयर्थ्या- पत्तेस्तदिति भिन्नं पदं वेद्मीत्यस्य कर्मेति युक्तमुत्पश्यामः ] ॥ ६१ ॥

 अगूढसद्भावमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया ।
 अयीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः ।। ६२ ।।

 अगूढेति ॥ इङ्गितज्ञया पार्वतीहृदयाभिज्ञया। 'इङ्गितं हृद्गतो भावः' इति सज्जनः । तया गौरीसख्येत्येवमगूढसद्भावं प्रकाशितसदभिप्रायं यथा तथा निवे- दितो ज्ञापितो निष्ठा मरणमवधिर्यस्य स नैष्ठिको यावजीवब्रह्मचारी सुन्दरो विलासी । नैष्ठिकश्चासौ सुन्दरश्चेति तथोक्तः । द्वयोरन्यतरस्य विशेषणत्वविव-


पाठा०-१ बद्धम्. २ न. ३ अस्राकलम.


  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः