पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
[ सर्गः ५
कुमारसंभवे

प्रादुर्भावो व्यज्यते, अन्यथा सखीरोदनानुपपत्तेरिति । द्वादशावस्थापक्षे तु प्रला- पावस्था च व्यज्यते । 'प्रलापो गुणकीर्तनम्' इत्यालंकारिकाः ॥ ५६ ॥

 त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे सहसा व्य[१]वुध्यत ।
 क्व नीलकण्ठ! ब्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना ।।५७॥

 त्रिभागेति ॥ किंचेति चार्थः । शिष्यत इति शेषः । कर्मणि घञ् । त्रिभ्यो भागेभ्यः शेषास्ववशिष्टासु । यद्वा,-रात्रेस्त्रियामत्वेन प्रसिद्धत्वात्तृतीयो भागस्त्रि- भागः । संख्याशब्दस्य वृत्तिविषये पूरणार्थत्वमिष्यते । यथा-'शतांशः, सहस्रांशः' इति । त्रिभागः शेषो यासां तासु निशासु क्षणं क्षणमात्रं नेग्रे निमील्य मीलयित्वा सहसा सद्यः हे नीलकण्ठ ! क्व व्रजसि कुत्र गच्छसीत्यलक्ष्या निर्विषया वाग्वचनं यस्याः सा तथोक्ता । तथाऽसत्ये मिथ्याभूने कण्टेऽर्पितं बाहुबन्धनं यस्याः सा तथा सती व्यबुध्यत विबुद्धवती । एतेन जागरोन्मादौ सूचितौ ॥ ५७ ॥

 स्वमसादृश्यप्रतिकृतिदर्शनतदङ्गस्पृष्टस्पर्शाख्याश्चत्वारो विरहिणां विनोदाः; तत्र स्वप्नसंदर्शनमुक्त्वा प्रतिकृतिदर्शनमाह-

 [२]यदा बुधैः सर्वगतस्त्वमुच्यसे न वेत्सि भावस्थमिमं कथं जनम् ।
 इति स्वहस्तोल्लिखितश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः ॥५८।।

 यदेति ॥ यदा, यत इत्यर्थः । यदेति हेतावित्युक्त्वा गणव्याख्यानेऽन्यत्रो-. दाहृतत्वात् । त्वं बुधैर्मनीषिभिः सर्वगतः सर्वव्यापीत्युच्यसे, तत इत्यध्या- हारः । भावे रत्याख्ये तिष्ठतीति भावस्थम् , त्वय्यनुरागिणमित्यर्थः । इमं जनम् । 'इमम्' इत्यात्मनिर्देशः । कथं न वेत्सि न जानासीति मुग्धया मूढया, अकिंचि- स्करश्चित्रगतोपालम्भ इत्यजानानयेत्यर्थः । तया स्वहस्तेनोलिखितश्चित्रे लिखित- श्चन्द्रशेखरो रहस्येकान्ते, सखीमात्रसमक्षमित्यर्थः। उपालभ्यत साधिक्षेपमुक्तश्च । उक्तसमुच्चयार्थश्चकारः । यद्यपि रहसीत्युक्तं तथापि सखीसमक्षकरणाल्लज्जात्यागो व्यज्यत एवं ॥ ५८ ॥

 यदा च तस्याधिगमे जगत्पतेरपश्यदन्यं न विधिं विचि[३]न्वती ।
 तदा सहास्माभिरनुज्ञया गुरोरियं प्रपन्ना तपसे तपोवनम् ॥५९॥

 यदेति ॥ जगत्पतेस्तस्येश्वरस्याधिगमे प्राप्तावन्यं विधिमुपायं विचिन्वती


पाठा०-१ विबुध्यते. २ यतः. ३ वितन्वती.


  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः