पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५२-५७]
१०७
सखीभिः पार्वत्या हरकामुकत्वाविष्करणम्


 असह्यहुंकारनिवर्तितः पु[१]रा पुरारिमप्राप्तमुखः शिलीमुखः ।
 इमां हृदि व्यायतपातम[२] क्षिणोद्विशीर्णमूर्तेरपि पुष्पधन्वनः ॥५४॥

 असहोति ॥ पुरा पूर्वमसह्येन सोढुमशक्येन हुंकारेण रौद्रेण निवर्तितः । अत एव पुरारि हरमप्राप्तमुखोऽप्राप्तफलो विशीर्णमूर्तेर्नष्टशरीरस्यापि पुष्पधन्वनः कामस्य शिलीमुखो बाण इमां पार्वतीं हृदि व्यायतः, सुदूरावगाढ इति यावत् । तादृक्पातः प्रहारो यस्मिन्कर्मणि तत्तथाक्षिणोदकर्शत् । दग्धदेहस्यापि मार्गणो लग्नः । 'मृदुः सर्वत्र बाध्यते' इति भावः। अनेन 'विवृण्वती शैलसुतापि भावम्' (३।६८) इत्यत्रोक्तं चक्षुःप्रीतिमनःसङ्गाख्यमवस्थाद्वयमनन्तरावस्थोप- योगितयानूद्य कार्यावस्था सूचिता ॥ ५४ ॥

 
 तदा प्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूसरालका ।

 न जातु बाला लभते स्म निर्वृतिं तुषारसंघातशिलातलेष्वपि ॥५५।।

तदेति ॥ तदेति च्छेदः । तदा प्रभृति, तत आरभ्येत्यर्थः । सप्तम्यर्थस्यापि दाप्रत्ययस्य पञ्चम्यर्थे लक्षणा; प्रभृतियोगे पञ्चमीनियमात् । पितुर्ग्रह उन्मदनो- स्कटमन्मथा ललाटस्थालंकारो ललाटिका तिलकः । 'कर्णललाटात्कनलंकारे' (पा.४।३।३५) इति कन्प्रत्ययः । तस्याश्चन्दनेन धूसरा धूसरवर्णा अलकाश्च्वर्ण- कुन्तला यस्याः सा तथोक्ता बाला पार्वती जातु कदाचिदपि तुषारसंघातास्तु- षारधनास्त एव शिलास्तासां तलेषूपरिभागेध्वपि निवृतिं सुखं न लभते स्म । एतेनारस्यपरसंज्ञा विषयविद्वेषावस्था द्वादशावस्थापक्षे संज्वरश्च व्यज्यते ॥५५॥

 उपात्तवणे चरिते पिनाकिनः सबाष्पकण्ठस्खलितैः पदैरियम् ।
 अनेकशः किंनरराजकन्यका वनान्तसंगीतसखीररोदयत् ॥५६॥

 उपात्तेति ॥ पिनाकिनः शंभोश्चरिते त्रिपुरविजयादिचेष्टित उपात्तवर्णे प्रारब्धगीतक्रमे । 'गीतक्रमे स्तुतौ वेदे वर्णशब्दः प्रयुज्यते' इति हलायुधः । सबाष्पे गद्गदे कण्ठे स्खलितैर्विशीर्णैः पदैः सुप्तिङन्तपदैः करणैः । वनान्ते संगी- तेन निमित्तेन सखीर्वयस्याः किंनरराजकन्यका अनेकशो बहुशोऽरोदयदश्रुमोक्ष- मकारयत् । हरचरितगानजनितमदनवेदनामेनां वीक्ष्य किंनर्योऽपि रुरुदुरिति भावः । अत्र वर्णस्खलनलक्षणकार्योक्त्या पुनः पुनस्तत्कारणीभूतमूर्छावस्था


पाठा०-१ स्मरारिम्. २ अक्षणोत्.


  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः