पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६
[ सर्गः ५
कुमारसंभवे

व्येत्यर्थः । अभिहितोक्ता सा पार्वती मनोगतं हृदिस्थं वरं शंसितुं वक्तुं न शशाक समर्था नाभूत् , लज्जयेति शेषः । अथोऽनन्तरं परिपार्श्ववर्तिनीं वयस्यां सखीं विवर्तितं विचालितमनञ्जनं व्रतवशाद्वर्जितकज्जलं नेत्रं यस्मिन्कर्मणि तत्तथैक्षत, नेत्रसंज्ञयैव प्रत्युत्तरं वाचयांचकारेत्यर्थः ॥ ५१ ॥

 सखी तदीया तमुवाच वर्णिनं निबोध साधो! तव चेत्कुतूहलम् ।
 यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः ॥ ५२ ॥

 सखीति ॥ तस्याः पार्वत्या इयं तदीया सखी वयस्या तम् । 'वर्णः प्रशस्तिः' इति क्षीरस्वामी। सोऽस्यास्तीति वर्णिनं ब्रह्मचारिणम् । 'वर्णाद्द्रह्मचारिणि' (पा. ५।२।१३४) इतीनिप्रत्ययः । उवाच ब्रूते स्म । किमिति ? हे साधो विद्वन् ! तव कुतूहलं चेत् , श्रोतुमस्तीति शेषः। तर्हि निबोधावगच्छ, आकर्णयेत्यर्थः । 'बुध अवगमने' इति धातोर्भौवादिकाल्लोट् । श्रोतव्यं किं तदाह-- --यस्मै लाभायेदं यदर्थम् । 'अर्थेन सह नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम्' (बा० १२ ७३-७४) इति वार्तिकनियमात्क्रियाविशेषणम् । एतया पार्वत्याम्भोंजं पद्ममुष्णवारणमातपत्रमिय वपुः शरीरं तपःसाधनं कृतम् , तपःप्रवृत्तिकारण- मुच्यते श्रूयतामित्यर्थः ॥ ५२ ॥

 'दृङ्मनःसङ्गसंकल्पो जागरः कृशताऽरतिः । ह्रीत्यागोन्मादमूर्च्छान्ता इत्यनङ्ग- दशा दश ॥' इति । तत्रास्याः काश्चिद्दशाः क्रममनादृत्यैव योजयति 'इयम्' इत्यादिभिः षड्भिः श्लोकः-

 इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशा[१]नवमत्य मानिनी ।
 अरूपहार्य मदनस्य निग्रहात्पिनाकपाणिं पतिमाप्तुमिच्छति ।।५३।।

 इयमिति ॥ मानिनी 'इन्द्राणीप्रभृतीर्रातशय्य वर्तितव्यम्' इत्यभिमानव-. तीयं पार्वत्यथिश्रियोऽधिकैश्वर्यान्महेन्द्रप्रभृतीनिन्द्रादींश्चतसृणां दिशामीशानिन्द्र- वरुणयमकुबेरान् । 'तद्धितार्थ-' (श. २॥१॥५१) इत्यादिनोत्तरपदसमासः । अवमत्यावधूय मदनस्य निग्रहान्निबर्हणाद्धेतोः, अकामुकत्वादित्यर्थः । रूपेण सौन्दर्येण हायों वशीकरणीयो न भवतीत्यरूपहार्यं पिनाकः पाणौ यस्य तं पिनाक- पाणिं हरम् । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' (वा० १।४।२५) इति साधु । पति भर्तारमाप्तुमिच्छति । एतेन संकल्पावस्था सूचिता ॥ ५३ ॥


पाठा०-१अवमन्य.


  1. लघुः पाठ्यांशः