पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
right
center

१०० कुमारसंभवे [ सर्गः ५

वाससी' इत्यमरः | तुलां साम्यमारोहति, गच्छतीत्यर्थः | अत्र 'तुला'शब्दस्य सादृश्यवाचित्वात्तद्योगेऽपि 'तुल्यार्थेस्तुलोपमाभ्याम्-' (पा. २|३|७२) इति न तृतीयाप्रतिषेधः; तत्र सूत्रे सदृशवाचिन एव ग्रहणादिति || ३४ ||

अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु |
य उत्पलाक्षि ! प्रचलैर्विलोचनैस्तवाक्षिसादृश्यमिव प्रयुञ्जते || ३५ ||

 अपीति || करस्थान्दर्भान् प्रणयेन स्त्रेहेनापहरन्तीति ते तथोक्तेषु, सापरा- धेष्विति भावः | 'करस्थदर्भप्रणयापराधिषु' इति पाठे दर्भाणां प्रणयेन प्रार्थनयापराधिषु हरिणेषु विषये ते मनः प्रसन्नमपि न क्षुभितं किम् ? सापरा- धेष्वपि न कोपितच्यं तपस्विभिरिति भावः | हे उत्पलाक्षि ! ये हरिणाः प्रचलै- श्वञ्चलैर्विलोचनैनैत्रैस्तवाक्षिसादृश्यं प्रयुञ्जत इवाभिनयन्तीव | प्रसन्नत्वान्मृग- नेत्राणि त्वन्ञयनैः साम्यमुपयान्तीति भावः | 'उत्पलक्षेपचलैः' इति पाठान्तर उत्पलकम्पचलै: 'भावानयने द्रव्यानयनम्' इति न्यायेन क्षिप्यमाणोत्पलचलैरि- त्यर्थः || ३५ ||

यदुच्यते पार्वति ! पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः |
तथा हि ते शीलमुदारदर्शने ! तपस्विनामप्युपदेशतां गतम् || ३६ ||

 यदिति || हे पार्वति ! रूपं सौम्याकृतिः पापवृत्तये पापाचरणाय न भवतीति यदुच्यते | लोकैरिति शेपः | तद्वचो न व्यभिचरति न स्खलतीत्यव्यभिचारि सत्यम् | 'यत्राकृतिस्तत्र गुणाः', 'न सुरूपाः पापसमाचारा भवन्ति' इत्यादयो लोकवादा न विसंवादमासादयन्तीत्यर्थः | किमिति ज्ञायते ? तथा हि--हे उदारदर्शने आयताक्षि ! सुरूपे इत्यर्थः | अथवोन्नतज्ञाने ! विवेकवतीत्यर्थः | ते तव शीलं सद्वुत्तम् | 'शीलं स्वभावे सद्वृत्ते' इत्यमरः | तपस्विनामप्युप- दिश्यतेऽनेनेत्युपदेशः प्रवर्तकं प्रमाणं तत्तामुपदेशतां गतं प्राप्तम् | मुनयोऽपि स्वां वीक्ष्य स्ववृत्ते प्रवर्तन्त इति भावः || ३६ ||

पाठा०--१ अयि. २ सापत्न्यम्. टिप्प०--1 तथा चोक्तं भोजेन-सदृशपदार्थवाची सादृश्यमात्रवारी चेति द्वौ 'तुला'शब्दौ, तयोः सदृशपदार्थवाची तुलाशब्दयोग एव तृतीयाप्रतिषेधः | अत एव 'कृष्णस्य तुला नास्ति' कृष्णेन सदृशः कोऽपि नास्तीत्यर्थ इति | 2 शीलानुगुणं रूप- मिति विषयो 'न तुलाविषये तवाकृतिर्न वचोवर्मनि ते सुशीलता' (नैषध. २|५१) इत्यादिना नैषधे स्फुटीकृतः |