पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
[ सर्गः ५
कुमारसंभवे

 इति ध्रुवेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमात् ।
 क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ।।५।।

 इतीति ॥ इत्येवमनुशासत्युपदिशन्ती मेना ध्रुवेच्छां स्थिरव्यवसायां सुतां पार्वतीमुद्यमादुद्योगात्तपोलक्षणाम्नियन्तुं निवारयितुं न शशाक समर्था नाभूत् । तथा हि-ईप्सितार्थ इष्टार्थे स्थिरनिश्चयं मनो निम्नाभिमुखं पयश्च कः प्रतीपये- त्प्रतिकूलयेत् , प्रतिनिवर्तयेदित्यर्थः । निम्नप्रवणं पय इवेष्टार्थाभिनिविष्टं मनो दुर्वारमिति भावः । अत्र दीपकानुप्राणितोऽर्थान्तरन्यासालंकारः ॥ ५॥

 कदाचिदासन्नसखीमुखेन सा मनोरथज्ञं पितरं मनस्विनी ।
 अयाचतारण्यनिवासमात्मनः फलोदयान्ताय तपःसमाधये ॥६॥

 कदाचिदिति ॥ अथ कदाचिन्मनस्विनी स्थिरचित्ता सा पार्वती मनोरथ- ज्ञमभिलाषाभिज्ञं पितरं हिमवन्तमासनसख्याप्तसखी सैव मुखमुपायः । 'मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि' इति विश्वः । तेन फलोदयः फलोत्पत्ति- रन्तोऽवधिर्यस्य तस्मै तपःसमाधये तपोनियमार्थमात्मनः स्वस्यारण्यनिवासं वनवासमयाचत । 'दुह्याच्-' (वा. १०९-११००) इत्यादिना द्विकर्मकत्वम् ॥६॥

 अथानुरूपाभिनिवेशतोपिणा कृताभ्यनुज्ञा गुरुणा गरीयसा ।
 प्रजासु पश्चात्प्रथितं तदाख्यया जगाम गौरीशिखरं शिखण्डिमत् ७

 अथेति ॥ अथ गौयनुरूपेण योग्येनाभिनिवेशेनाग्रहेण तुप्यतीति तथोक्तेन गरीयसा पूज्यतमेन गुरुणा पित्रा कृताभ्यनुज्ञा 'तपः कुरु' इति कृतानुमतिः सती, पश्चात्तपःसिद्ध्युत्तरकालं प्रजासु जनेषु तदाख्यया तस्या गौर्याः संज्ञया प्रथितम् , गौरीशिखरमिति प्रसिद्धमित्यर्थः । शिखण्डिमत्, न तु हिंस्रप्राणिप्रचुरमिति भावः । शिखरं शृङ्गं जगाम ययौ ॥ ७ ॥

 विमुच्य सा हारमहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम् ।
 बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥ ८ ॥

 विमुच्येति ॥ अहार्यनिश्चयाऽनिवार्यनिश्चया सा गौरी विलोलाभिश्चलाभि- र्यष्टिमिः प्रतिसरैः प्रविलुप्तं प्रमृष्टं चन्दनं स्तनान्तरगतं येन तं तथोक्तं हारं मुक्ता-


पाठा०-१ व्रतेच्छाम्.