पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १-४]
८९
भग्नमनोरथया पार्वत्या स्वसौन्दर्यगर्हणम्

तपसा शिवं वशीकर्तुमुधुक्तेत्यर्थः । अन्यथा ततोऽन्यप्रकारेण कथं वा तद्वयम- वाप्यते ? । किं तद्वम् ! तथाभूता विधा प्रकारो यस्य तत्तथाविधं प्रेम स्नेहः, येनार्धाङ्गहरा हरस्य भवेदिति भावः । तादृशः पतिश्च, यो मृत्युंजय इति भावः ।। द्वयमेव खलु स्त्रीणामपेक्षितम्-यद्भर्तृवाल्लभ्यं जीवभर्तृकत्वं चेति; तच्च तपश्चर्यै- कसाध्यमिति निश्चिकायेत्यर्थः । अन मनुः ( ११।२३८)-- 'यदुष्करं यद्दुरापं यद्दुर्ग यच्च दुस्तरम् । तत्सर्वं तपसा प्राप्यं तपो हि दुरतिक्रमम् ॥' इति ॥ २॥

 निशम्य चैनां तपसे कृतोद्यमां सुतां गिरीश1प्रतिसक्तमानमाम् ।
 उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात् ॥३॥

 निशम्येति ॥ मेना मेनका च गिरीशप्रतिसक्तमानसां हरासक्तचित्तां तपसे तपश्चरणाय कृतोद्यमां कृतोद्योगां सुतां निशम्य श्रुत्वैनां पार्वतीं वक्षसा परिरभ्यालिङ्गय महतो मुनिव्रतात्तपसो निवारयन्त्युवाच । 'मुनिव्रतात्' इत्यत्र यद्यपि मुनिव्रतस्य मेनकाया अनीप्सितत्वात् 'वारणार्थानामीप्सितः (पा.१।४।२७) इति नापादानत्वं, तथापि 'कृतोद्यमाम्' इति मानसप्रवेशोत्तत्वात् 'ध्रुवमपाये- डपादानम्' (पा. १।४।२४) इत्यपादानत्वमेव स्यात् । यथाह भाष्यकारः-'स बुद्ध्या संप्राप्य निवर्तते, तत्र ध्रुवमपायेऽपादानमिति प्रसिद्धम्' इति ॥ ३ ॥

 सामान्यनिषेधमुक्त्वा विशेषनिषेधमाह-

 मनीपिताः सन्ति 2गृहेषु देवतास्तपः क्व वत्से ! क्व च तावकं वपुः ।
 पदं सहेत भ्रमरस्य पेलवं शिरीपपुष्पं न पुनः पतत्रिणः ॥ ४ ॥

 मनीषिता इति ॥ हे वत्से ! मनस ईषिता इष्टा मनीषिताः। पृषोदरा. दित्वात्साधुः । देवताः शच्यादयो गृहेषु सन्ति, त्वं ता आराधयेति शेषः । तपः क्व? तवेदं तावकम् , 'युष्मदस्मदोरन्यतरस्यां खञ्च' (पा.४/३।१) इत्यण्प्रत्ययः । तवकममकायेकवचने (पा. ४/३/३) इति तवकादेशः। वपुश्च क्व? तथा हि-पेलवं मृदुलं शिरीषपुष्पं भ्रमरस्य भृङ्गस्य पदं पदस्थितिं सहेत, पतत्रिणः पुनः पक्षिणस्तु पदं न सहेत; अतिसौकुमार्यात् । दिव्योपभोगभोग्यं ते वपुर्न दारुणतपक्षम- मित्यर्थः । आत्र दृष्टान्तालंकारः॥४॥


पाठा०-१ गिरीशं प्रति सक्त; त्रिनेत्रं प्रति सक्त, २ गृहेऽपि.