पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
[ सर्गः ५
कुमारसंभवे

 अथेति ॥ अथानन्तरं व्यसनेन दुःखेन कृशा मदनवधू रतिरुपप्लवान्तं विपदवधिं किरणपरिक्षयेण धूसरा मलिना दिवातनस्य दिनभवस्य । 'सायंचिरम्-' (पा. ४।३।२३) इत्यादिनाव्युप्रत्ययः । शशिनश्चन्द्रस्य लेखा प्रदोषं रात्रिमिव परिपालयांबभूव प्रतीक्षांचके । पुष्पिताना वृत्तम्-'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति लक्षणात् ॥ ४६ ॥

इति श्रीमन्महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमा-
ख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
रतिविलापो नाम चतुर्थः सर्गः ।

पञ्चमः सर्गः


 तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती ।
 निनिन्द रूपं हृदयेन पार्वती 1प्रियेषु सौभाग्यफला हि चारुता ॥१॥

 तथेति ॥ पर्वतस्यापत्यं स्त्री पार्वती तथा तेन प्रकारेणाक्ष्णोः समीपे समक्षं पुरतः । 'अव्ययं विभक्तिसमीपसमृद्धि-' (पा. २।१।६) इत्यादिनाव्ययीभावः । मनोभवं मन्मथं दहता भस्मीकुर्वता पिनाकिनेश्वरेण भग्नः खण्डितो मनोरथो- ऽभिलाषो यस्याः सा तथोक्ता सती, हृदयेन मनसा रूपं सौन्दर्यं निनिन्द, 'धिङ्मे रूपं यद्धरमनोहरणाय नालम्' इति गर्हितवतीत्यर्थः। युक्तं चैतदित्याह- तथा हि-चारुता सौन्दर्यं प्रियेषु पतिषु विषये सौभाग्यं प्रियवाल्लभ्यं फलं यस्याः सा तथोक्ता । सौन्दर्यस्य तदेव फलं यद्भर्तृसौभाग्यं लभ्यते; नो चेद्वि- फलं तदिति भावः । अस्मिन्सर्गे वंशस्थं वृत्तम्-'जतौ तु वंशस्थमुदीरितं जरौ' इति लक्षणात् ॥ १ ॥

 इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः ।
 अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः ॥२॥

 इयेषेति ॥ सा पार्वती समाधिमेकाग्रतामास्थायावलम्ब्य तपोभिर्वक्ष्यमाण- नियमैः करणभूतैरात्मनः स्वस्यावन्ध्यरूपतां सफलसौन्दयं कर्तुमियेषेच्छति स्म,


पाठा०-१ प्रिये हि.