पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४१-४६]
८७
प्रियसंगमाश्वासनाद्रतिमरणबुद्धिनिवारणम्

कामx स्वेन वपुषा नियोजयिष्यति संगमयिष्यति । इत्येवं स्मरशापस्यावधिदाम- वसानदायिनीx सरस्वती वाचं चाह, एवं शापावधिमप्युक्तवानित्यर्थः । ननु तथा क्रुद्धस्य कथमीदृशी शान्तिरत आह-वशिनो जितेन्द्रियाचाम्बुधराश्चा- शनेरमृतस्य चेत्युभयोर्योनयः प्रभवाः । वशिपक्षे-अशन्यमृतशब्दौ कोपप्रसा- दपरौ । अन्यत्र वैधुताम्युदकपरौ । युग्मकम् ॥ ४२-४३ ॥

 तदिदं परिरक्ष शोभने भवितव्यप्रियसंगमं वपुः ।
 रविपीतजला तपात्यये पुनरोधेन हि 1युज्यते नदी ॥४४॥

 तदिति ॥ हे शोभने ! तत्तस्मात्कारणाद्भवितव्यो भविष्यन् प्रियसंगमो यस्य तत्तथोक्तमिदं वपुः परिरक्ष । तथा हि-रविपीतजला नदी तपात्यये प्रावृषि। 'प्रावृट् तपात्यये' इति हलायुधः । पुनरोधेन प्रवाहेण युज्यते संगच्छते हि ॥४४॥

  इत्थं रतेः किमपि भूतमदृश्यरूपं
   मन्दीचकार मरणव्यवसायबुद्धिम् ।
  तत्प्रत्ययाच कुसुमायुधबन्धुरेना2-
   माश्वासयत्सुचरितार्थपदैर्वचोभिः ॥४५॥

 इत्थमिति ॥ इत्थमनेन प्रकारेणादृश्यरूपं किमपि भूतं कश्चित्प्राणी । 'युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु' इत्यमरः । रतेर्मदनदाराणां मरण- व्यवसायबुद्धिं मरणोद्योगबुद्धिं. मन्दीचकार, निवारयामासेत्यर्थः 'मूढाल्पापटु- निर्भाग्या मन्दाः' इत्यमरः। अथ कुसुमायुधबन्धुर्वसन्तश्च तत्प्रत्ययात्तस्मिन्भूते विश्वासात् । 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः । एनां रतिं सुष्टु चरितार्थानि पदानि येषां तैर्वचोभिर्वाक्यैराश्वासयत् । सर्वथा ते देवताप्रसादा- प्रियसंगमो भविष्यतीत्यादिवचनैरस्या दुःखमपाचकारेत्यर्थः ॥ ४५ ॥

 अथ मदनवधूरुपप्लवान्तं व्यसनकृशा 3परिपालयांबभूव ।
 शशिन इव दिवातनस्य लेखा किरणपरिक्षयधूसरा प्रदोपम् ॥४६॥


पाठा०-१ पूर्यते. २ एताम्. ३ प्रतिपालयांबभूव. टिप्प०-1 विभिन्न विषयापीयमुपमा 'पतिरङ्कनिषण्णया तया' (रघु० ८।४२) इति

श्लोकसाम्यं निर्दिशति।