पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३३-४०]
८५
वसन्तं प्रति रतेः सदयवचनम्

 तदन्विति ॥ तच्चिताकरणमन्वनन्तरं मय्यर्पितं मदर्पितं ज्वलनमग्निं दक्षिण- वातवीजनैर्मलयमारुतसंचालनैस्त्वरयेः, त्वरितं ज्वलयेत्यर्थः । त्वराहेतुमाह ते तव विदितं खलु । 'मतिबुद्धिपूजार्थेभ्यश्च' (पा. ३/२/१८८ ) इति वर्तमाने क्तः। तद्योगात्कर्तरि षष्ठी । यथा येन प्रकारेण स्मरो मां विना क्षणमपि नोत्सहते न हृष्यति, तथा त्वया ज्ञातमेवेत्यर्थः ॥ ३६॥

 इति चापि विधाय दीयतां सलिलस्याञ्जलिरेक एव नौ।
 अविभज्य परत्र तं मया सहितः पास्यति ते स बान्धवः ॥ ३७॥

 इतीति । अपि चेत्येवं विधाय कृत्वा नावावाभ्यामेक एव सलिलस्याञ्जलिर्दीयताम् । तमञ्जलिं स ते बान्धवः सखा स्मरः परत्र परलोके मया सहितोऽविभज्य पास्यति ॥३७ ॥

 परलोकविधौ च माधव! स्मरमुद्दिश्य विलोलपल्लवाः ।
 निवपेः सहकारमञ्जरीः प्रियचूतप्रसवो हि ते सखा ॥ ३८ ॥

 परलोकेति ॥ किंच हे माधव वसन्त ! परलोकविधौ पिण्डोदकादि कर्मणि स्मरमुद्दिश्य विलोलाः पल्लवा यासु ताः सहकारमञ्जरीश्चुतवल्लरीर्निवपेर्देहि । हि यस्मात्कारणात्ते सखा स्मरः प्रियाश्चुतप्रसवा यस्य स तथोक्तः ॥ ३८ ॥

 इति देहविमुक्तये स्थितां रतिमाकाशभवा सरस्वती ।
 शफरीं ह्रदशोषविक्लवां प्रथमा वृष्टिरिवान्वकम्पयत् ॥ ३९ ॥

 इतीति ॥ इति देहस्य विमुक्तये शरीरस्य विसर्गाय स्थिताम् , कृतनिश्चयामिति यावत् । रतिमाकाशभवा सरस्वत्यशरीरा वाक् । हृदशोषविक्लवां हृदस्य जलाधारस्य शोषेण विक्लवां शफरी प्रोष्ठीम् । 'प्रोष्ठी तु शफरी द्वयोः' इत्यमरः । प्रथमा वृष्टिर्वर्षमिवान्वकम्पयदनुकम्पितवती, सदयमुवाचेत्यर्थः । 'कृपा दयानुकम्पा स्यात्' इत्यमरः ॥३९॥

 कुसुमायुधपत्नि ! दुर्लभस्तव भर्ता न चिराद्भविष्यति ।
 शृणु येन स कर्मणा गतः शलभत्वं हरलोचनार्चिषि ॥४०॥


पाठा०-.१ यन्मया. २ विह्वलाम्, ३ अन्वकम्पत. ४ हरलोचनार्चिषाम्.

टिप्प०-1 श्लोकेनानेन रघुवंशगत (८।६१-६२) 'मिथुनं परि-', 'कुसुमं कृतदोहदस्त्वया' इति श्लोकद्वयस्यौपम्यादिभिः साम्यं स्मारयति ।