पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
[ सर्गः ४
कुमारसंभवे

 कर्तव्यश्चायमर्थः स्त्रीणामित्याह-

 शशिना सह याति कौमुदी सह मेघेन तडित्प्रलीयते ।
 प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ॥ ३३ ॥

 शशिनेति ॥ कौमुदी चन्द्रिका शशिना सह याति, शशिन्यस्तमिते स्वयं नश्यतीत्यर्थः । तडित्सौदामिनी मेघेन सह प्रलीयते प्रणश्यति । कर्तरि लट् । प्रमदाः स्त्रियः पतिवर्त्म गच्छन्तीति पतिवर्त्मगाः पतिमार्गानुगामिन्य इत्येतद्विचतनैः, अविवेकिभिरपीत्यर्थः । प्रतिपन्नं ज्ञातम् । 'अलवणा यवागूः', 'अनुदरा कन्या' इति वदल्पत्वाभिप्रायेण विचेतनैरपीति निर्देशः । नाथस्तु 'पृथग्जनैः' इति पपाठ । पतिवर्त्म॑गा इत्यत्र स्मृतिः-'आर्तार्ते मुदिते हृष्टा प्रोषिते मलिनाकृशा । मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥ इति ॥ ३३ ॥

 अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभम्मना ।
 नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ ॥ ३४ ॥

 अमुनेति ॥ अमुना पुरोवर्तिना सुभगेन शोभनेन प्रियगात्रभस्मनैव,एवकारो मण्डनान्तरनिवृत्त्यर्थः । कषायितस्तनी रञ्जितस्तनी । 'रागे क्वाथे कषायोऽस्त्री निर्यासे सौरभे रसे' इति वैजयन्ती ।नवपल्लवसंस्तरे यथा नवपल्लवतल्प इव विभावसौ वह्नौ तनुं शरीरं रचयिष्यामि,निधास्यामीत्यर्थः॥ ३४ ॥

 कुसुमास्तरणे सहायतां बहुशः सौम्य ! गतस्त्वमावयोः ।
 कुरु संप्रति तावदाशु मे प्रणिपाताञ्जलियाचितश्चिताम् ।। ३५ ॥

 कुसुमेति ॥ हे सौम्य साधो! त्वमावयो रतिपञ्चबाणयोर्बहुशो बहुवारं कुसुमास्तरणे पुष्पशयने सहायतां गतः । संप्रति प्रणिपाताञ्जलिना याचितः, अञ्जलिपूर्वकं प्रार्थितः सन्नित्यर्थः । आशु मे चितां काष्ठचयं कुरु कुरुष्व, यथेह तथामुत्रोपकर्तव्य मित्रेणेत्यर्थः ॥ ३५ ॥

 तदनु ज्वलनं मदर्पितं त्वरयेर्दक्षिणवातवीजनैः ।
 विदितं खलु ते यथा स्मरः क्षणमप्युत्सहते न मां विना ॥३६॥


पाठा०-१ विलीयते.

टिप्प०-1 'शशिनं पुनरेति शर्वरी' (रघु. ८/५६) इति श्लोकोऽनेन तुलनामर्हति ।