पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २-६]
७५
रतिविलापवर्णनम्

तथोक्ता । 'स्वाङ्गाचोपसर्जनादसंयोगोपधात्' (पा.४।१।५४) इति ङीष् । विकीर्ण- मूर्धजा विकीर्णा विक्षिप्ता मूर्धजाः केशा यस्याः सा तथोक्ता सा रतिः स्थलीं वनभूमिम् , तन्नत्यान्प्राणिन इत्यर्थः । 'जानपदकुण्डगोणस्थल-' (पा. ४।१।४२) इत्यादिना ङीष् । समदुःखां स्वतुल्यशोकां कुर्वतीव विललाप परिदेवितवती । 'विलापः परिदेवनम्' इत्यमरः ॥ ५ ॥

 उपमानमभूद्विलासिनां करणं यत्तव कान्तिमत्तया ।
 तदिदं गतमीदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः॥५॥

 उपेति ॥ तब यत्करणं गात्रम् । 'करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि' इत्यमरः । कान्तिमत्तया सौन्दर्येण हेतुना विलासिनां विलसनशीलानाम् । 'वौ कपलस-' (पा. ३।२।१४) इत्यादिना घिनुष्प्रत्ययः । उपमीयते येन तदुपमान- मभूत् । तत्करणमिदमीद्दशीम् दशामवस्थां गतम् , भस्मीभूतमित्यर्थः । तथापि न विदीर्ये न विदीर्णा भवामि। कर्मकर्तरि लट् । तथा हि-स्त्रियः कठिनाः खलु, कठिनत्वादविदीर्यमाणत्वमित्यर्थः । कारणात्कार्यसमर्थनरूपोऽर्थान्तरन्यासः। 'धीरसंचारिणी दृष्टिगतिर्गोवृषभाच्चिता । स्मितपूर्वं तथालापो विलास इति कीर्तितः ॥ इति ॥ ५॥

 क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः ।
 नलिनीं क्षतसेतुबन्धनो जलसंघात इवासि विद्रुतः ॥ ६ ॥

 क्केति ॥ हे प्रिय ! क्षतसेतुबन्धनो भग्नसेतुबन्धो जलसंघातो जलौघो नलि- नीमिव, जलैकायत्तजीवितामिति शेषः । त्वदधीनजीवितां त्वदायत्तप्राणां मां क्व नु विनिकीर्य कुत्र वा निक्षिप्य क्षणभिन्नसौहृदः क्षणत्यक्तसौहार्दः सन् विद्रुतः पलायितोऽसि ? सेतुसौहृदयोः स्थितिहेतुत्वेन साम्यम् । सुहृदो भावः सौहृदम् । युवादित्वादण्प्रत्ययः । 'हृदयस्य हृल्लेखयदण्लासेषु' (पा. ६।३।५०) इति हृदा- देशः । अणि हृद्भावाम 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' (पा. ७।३।१९) इत्यु- भयपदवृद्धिः। हृद्भूतस्याण्विधाने तूभयपदवृद्धिः स्यात् । यथा सुहृदो भावः सौहार्दमिति । तदेवाह वामनः (काव्या.सू. ५।२।८३)–'सौहृददौर्ह्दशब्दावणि

हद्भावात्' इति ॥ ६॥