पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ७३-१]
७३
शून्यहृदयया पार्वत्या स्वभवनप्रस्थानम्

समर्थ्य विचार्य सख्योः समक्षं पुर इति च हेतुनाधिकं जातलज्जा । समानजनसम- क्षमवमानस्यातिदुःसहत्वादिति भावः । शून्या निरुत्साहा सती कथंचित्कृच्छ्रेण भवनस्याभिमुखी जगाम ॥ ७५ ॥

  संपदि मुकुलिताक्षीं रुद्रसंरम्भभीत्या
   दुहितरमनुकम्प्यामद्रिरादाय दोर्भ्याम् ।
  सुरगज इव बिभ्रत्पद्मिनीं दन्तलग्नां
   प्रतिपथगतिरासीद्वेगदीर्घी/कृताङ्गः ॥ ७६ ॥

 सपदीति ॥ सपद्यद्रिर्हिमवान् रुद्रस्य संरम्भात्कोपाद्भीत्या । 'संरम्भः संभ्रमे कोपे' इति विश्वः । मुकुलिताक्षीं निमीलितनेत्राम् । 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्पच्' (पा.५।४।११३) इति षष्प्रत्ययः । 'षिद्गौरादिभ्यश्च' (पा.४।११४१) इति डीए । अनुकम्पितुमर्हामनुकम्प्याम् । 'ऋहलोर्ण्यत्' (पा.३।१।१२४) इति ण्यत्प्रत्ययः। दुहितरं दोर्भ्यामादाय दन्तयोर्लग्नां दोर्भ्यामादाय पद्मिनीं नलिनीं बिभ्रत्सुरगज इव वेगेन रयेण दीर्घाकृताङ्ग आयतीकृतशरीरः सन् । पन्थानं प्रति गता मार्गानुसारिणी गतिर्यस्य स प्रतिपथगतिरासीत् , पन्थानमनुसृत्य जगामेत्यर्थः ॥ ७६ ॥

इति श्रीमन्महोपाध्यायकोलाचलमल्लिनाथसृरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
मदनदहनो नाम तृतीयः सर्गः ।


चतुर्थः सर्गः ।


 मूर्च्छिता रतिरित्युक्तम् , संप्रति तद्वृत्तान्तमेवाह-

 अथ मोहपरायणा सती विवशा कामवधूर्विबोधिता ।
 विधिना प्रतिपादयिष्यता नववैधव्यमसह्यवेदनम् ॥१॥

 अथेति ॥ अथानन्तरं मोहो मूर्च्छा परमयनमाश्रयो यस्याः सा मोहपरायणा मोहैकशरणा सती । 'परायणमभिप्रेते तत्परे परमाश्रये' इति यादवः । विवशा


पाठा०-१ अथ स. २ दीर्घाकृतात्मा. -