'चापले द्वे भवत इति वक्तव्यम्' (वा० ४६९४) इति वार्तिकेन द्वित्वम् । 'संभ्र- मेण वृत्तिश्चापलम्' इति काशिका । इत्येवं मरुतां देवानां गिरो वाचः खे व्योम्नि यावच्चरन्ति प्रवर्तन्ते तावत्तत्कालमेव भवस्य नेत्राजन्म यस्य स भवनेत्रजन्मा । 'अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः' ( काव्या.सू. ५।२।१९ ) इति वा- मनः। स वह्निर्मदनं भस्मैवावशेषो यस्य तं भस्मावशेषं चकार, ददाहेत्यर्थः॥७२॥
तीव्राभिपङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् ।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ।। ७३ ॥
तीब्रेति ॥ तीव्राभिषङ्गप्रभचेणातिदुःसहाभिभवसंभवेन । 'अभिषङ्गस्त्वभि- भवे सङ्ग आक्रोशनेऽपि च' इति वैजयन्ती। इन्द्रियाणां चक्षुरादीनां वृत्तिं व्यापारं संस्तम्भयता प्रतिबघ्नता मोहेन मूर्च्छया कर्त्रा । रतिर्मदनभार्या मुहूर्त- मज्ञातं भर्तृव्यसनं भर्तृनाशो यया सा तथोक्ता सती कृतोपकारेव बभूव, सहसा दुःखोपनिपातान्मुमूच्छेत्यर्थः । मोहेन दुःखसंवेदनाभावात्तस्योपकारक- त्वोक्तिः ॥ ७३ ॥
तमाशु विघ्नं तपसस्तपस्वी वनस्पतिं वज्र इवावभज्य ।
स्त्रीसंनिकर्षं परिहर्तुमिच्छन्नन्तर्दधे भूतपतिः सभूतः ॥ ७४ ॥
तमिति ॥ तपस्वी तपोनिष्टो भूतपतिः शिवस्तपसो विघ्नमन्तरायभूतं ते काममाशु वज्रोऽशनिर्वनस्पतिं वृक्षमिवावभज्य भङ्त्वा स्त्रीसंनिकर्ष स्त्रीसं- निधानं परिहर्तुमिच्छन् , तस्यानर्थहेतुत्वादिति भावः। सभूतः सगणः सा- न्तर्दधे ॥ ७४ ॥
शैलात्मजापि पितुरुच्छिरसोऽभिलाषं
व्यर्थं समर्थ्य ललितं वपुरात्मनश्च ।
सख्योः समक्षमिति चाधिकजातलज्जा
शून्या जगाम भवनाभिमुखी कथंचित् ॥ ७५ ॥
शैलात्मजेति ॥ शैलात्मजा पार्वत्यप्युच्छिरस उन्नतशिरसो महतः पितुर- भिलाषं 'हरो वरोऽस्तु' इति मनोरथं ललितं सुन्दरमात्मनो वपुश्च व्यर्थं निष्फलं
पाठा०-१ परिहर्तुकामः सोऽन्तर्दधे.