पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
[ सर्गः ३
कुमारसंभवे

ऽपीत्यर्थः । शूलिनि शिवे विषये स्वकार्यसिद्धिं पुनराशशंसे चकमे । पूर्व 'साध्वससनहस्तः' (३५१) इत्यादिना कार्यसिद्धरुन्मूलितत्वाभिधानादिह 'पुनः' इत्युक्तम् ॥ ५७ ॥

 भविष्यतः पत्युरुमा च शंभोः समाससाद प्रतिहारभूमिम् ।
 योगात्स चान्तः परमात्मसंज्ञं दृष्ट्वा परं ज्योतिरुपारराम ॥ ५८॥

 भविष्यत इति ॥ उमा च भविष्यतः पत्युः शंभोः प्रतिहारभूमि द्वारदेशं समाससाद । 'स्त्री द्वाद्वारं प्रतीहारः' इत्यमरः । स शंभुश्चान्तः परमात्मेति संज्ञा यस्य तत्परं मुख्यम् । 'परं दूरान्यमुख्येषु' इति यादवः । ज्योतिर्दृष्ट्वा साक्षात्कृत्य योगाद्यानात् । 'योगः संनहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । उपाररामोपारतः । 'व्याङ्परिभ्यो रमः' (पा. ११३१८३) इति परस्मैपदम् ॥ ५८ ॥

 ततो भुजंगाधिपतेः फणाग्रैरधः कथंचिद्धृतभूमिभागः ।
 शनैः कृतप्राणविमुक्तिरीशः पर्यङ्कबन्धं निबिडं बिभेद ।। ५९ ॥

 तत इति ॥ ततो भुजंगाधिपतेः शेषस्य फणाग्रैरधो भूमेरधः कथंचिदतियत्नेन तो भूमिभागः स्वोपवेशनभूभागो यस्य स तथोक्तः । वायुधारणाहितलाधवनिवृत्त्या भगवतो गुरुत्वादिति भावः । शनैः कृता प्राणानां प्राङ्गिरूद्धानां विमुक्तिः पुनःसंचारो येन स कृतप्राणविमुक्तिः, ईशो निबिडं दृढं पर्यङ्कबन्धं वीरासनं बिभेद शिथिलीचकार ॥ ५९ ॥

 तस्मै शशंस प्रणिपत्य नन्दी शुश्रूषया शैलसुतामुपेताम् ।
 प्रवेशयामास च भर्तुरेनां भ्रक्षेपमात्रानुमतप्रवेशाम् ॥ ६ ॥

 तस्मा इति । अथ नन्दी तस्मै भगवते। क्रियाग्रहणाचतुर्थी । प्रणिपत्य नमस्कृत्य शुश्रूषया सेवया निमित्तेनोपेताम् , सेवार्थमागतामित्यर्थः । शैलसुतां शशंस निवेदयामास । भर्तुः स्वामिनो भूक्षेपमात्रेण भूसंज्ञयैवानुमतप्रवेशामङ्गीकृतप्रवेशामेनां शैलसुतां प्रवेशयामास च ॥ ६ ॥

 तस्याः सखीभ्यां प्रणिपातपूर्व स्वहस्तलूनः शिशिरात्ययस्य ।
 व्यकीर्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः ॥६१ ।।


पाठा०~१ उपासितुं सा च पिनाकपाणिम्. २ अन्तर्गतम्. ३ अनुमित.