पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३८-४३]
६३
वसन्ताविर्भावे शिवस्यात्मानुसंधानपरत्वम्

 श्रुतेति ॥ अस्मिन्क्षणे वसन्ताविर्भावकाले भगवान्हरः श्रुताप्सरोगीतिरपि, दिव्याङ्गनागानमाकर्णयन्नपीत्यर्थः । प्रसंख्यानपर आत्मानुसंधानपरो बभूव । तथा हि-आत्मनश्चित्तस्येश्वराणां नियन्तृणाम् , वशिनामित्यर्थः । विहन्यन्त एभिरिति विघ्नाः प्रत्यूहाः । घञथै कप्रत्ययः । जातु कदाचिदपि समाधिभेदे समाधिभञ्जने प्रभवः समर्था न भवन्ति ॥ ४० ॥

 लतागृहद्वारगतोऽथ नन्दी वामप्रकोष्ठापितहेमवेत्रः ।
 मुखार्पिकाङ्गुलिसंज्ञयैव मा चापलायेति गणान्व्यनैपीत् ॥४१॥

 लतेति । अथ लतागृहद्वारं गतो वामे प्रकोष्ठेऽर्पितहेमवेत्रो धारितहेमदण्डो नन्दी नन्दिकेश्वरः । 'नन्दी भृङ्गिरिटस्तण्डुनन्दिनौ नन्दिकेश्वरे' इति कोशः। मुखेऽर्पितायाः सरोपविस्मयस्तिमितावलोकं निहिताया एकस्या अङ्गुलेस्तर्जन्याः संज्ञया सूचनयैव । 'संज्ञा स्यान्चेतना नाम हस्ताद्यैश्वार्थसूचना' इत्यमरः । गणाप्रमथांश्चापलाय चापलं कर्तुं मा भवतेति । 'क्रियार्थोपपदस्य-(पा.२।३।१४) इत्यादिना चतुर्थी । व्यनैपीच्छिक्षितवान् ॥ ४ ॥

 न केवलं गणा एव विनीताः, किंतु जरायुजादिचतुर्विधं प्राणिजातमपीत्याह-

 निष्कम्पवृक्षं निभृतद्विरेफं मूकाण्डजं शान्तमृगप्रचारम् ।
 तच्छासनात्काननमेव सर्वं चित्रार्पितारम्भमिवावतस्थे ॥ ४२ ॥

 निष्कम्पेति ॥ निष्कम्पवृक्षम् , इदमुद्भिज्जोपलक्षणम् । निभृतद्विरेफं निश्चलभृङ्गम् , स्वेदजोपलक्षणमेतत् । मूकाण्डजं निःशब्दपक्षिसरीसृपादिकम् , एतेनाण्डजजातिरुक्ता । शान्तमृगप्रचारम् , जरायुजोपलक्षणमेतत् । सर्वमेव काननं तच्छासनान्नन्दीश्वराज्ञया चित्रार्पितारम्भं चित्रलिखितारम्भमिवावतस्थे । 'नृगवाद्या जरायुजाः । स्वेदजाः कृमिदंशाद्याः पक्षिसदियोऽण्डजाः । उद्भिदस्तरुगुल्माद्याः' इत्यमरः ॥ ४२ ॥

 दृष्टिप्रपातं परिहत्य तस्य कामः पुरःशुक्रमिव प्रयाणे ।
 प्रान्तेषु संसक्तनमेरुशाखं ध्यानास्पदं भूतपतेर्विवेश ।। ४३ ॥

 दृष्टिप्रपातमिति ॥ कामः प्रयाणे यात्रायां पुरोगतः शुक्रो यस्मिन्देशे तं

पुरःशुक्रं देशमिव । 'प्रतिशुक्रं प्रतिबुधं प्रत्यङ्गारकमेव च । अपि शक्रसमो राजा