पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २७-३१]
५९
वसन्तागमनजनितस्थावरविकारवर्णनम्

 बालेन्दुवक्राण्यविकासभावाद्बभुः पलाशान्यतिलोहितानि ।
 सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥२९॥

 वालेन्द्विति ॥ अविकासभावान्निर्विकासत्वान्मुकुल भावाद्धेतोर्बालेन्दुरिव वक्राण्यतिलोहितान्यतिरक्तानि पलाशानि किंशुकपुष्पाणि । 'पलाशे किंशुकः पर्णः' इत्यमरः । वसन्तेन पुंसा समागतानां संगतानां वनस्थलीनां स्त्रीणां सद्यः सद्योदत्तानि, पुराणेष्वतिलौहित्याभावादिति भावः । नखक्षतानीव बभुः । अत्र वसन्तस्य वनस्थलीनां च विशेषणसाधारण्यान्नायकव्यवहारप्रतीतेः समासोक्तिस्ताव- दस्ति । 'नखक्षतानीव' इति जातिस्वरूपोत्प्रेक्षा वक्रत्वलौहित्यगुणनिमित्ता जागर्ति । सा च नायकव्यवहाराश्रितसमासोक्तिगर्भिण्येवोत्तिष्ठत इत्युभयोरेककालतैव । 'विशेषणसामर्थ्यादप्रस्तुतस्य गम्यत्वे समासोक्तिरिष्यत' इति हि लक्षणम् ॥२९॥

 लग्गद्विरेफाञ्जनभक्तिचित्रं मुखे मधुश्रीस्तिलकं प्रकाश्य ।
 रागेण बालारुणकोमलेन चूतप्रवालोष्ठमलंचकार ॥ ३० ॥

 लग्नेति ॥ मधुश्रीर्वसन्तलक्ष्मीलग्नद्विरेफा एवाञ्जनभक्तयः कज्जलरचनास्ताभिश्चित्रं चित्रवर्ण तिलकं पुष्पविशेषमेव तिलकं विशेषकम् । मुखं प्रारम्भस्तस्मिन्नेव मुखे वक्रे प्रकाश्य प्रकटय्य बालारुणकोमलेन बालार्कसुन्दरेण रागेणारुणिम्ना तेनेव लाक्षारागेण चूतप्रवाल एवोष्ठस्तं चूतप्रवालोष्ठमलंचकार प्रसाधया- मास ॥ अन्न रूपकालंकारः ॥ ३०॥

 मृगाः प्रियालद्रुममञ्जरीणां रजःकणैर्विध्नित दृष्टिपाताः ।
 मदोद्धताः प्रत्यनिलं विचेरुर्वनस्थलीर्मर्मरपत्रमोक्षाः॥३१॥

 मृगा इति ॥ प्रियालद्रुमा राजादनवृक्षाः । 'राजादनः प्रियालः स्यात्' इत्यमरः । तेषां मार्यस्तासां रजःकणैर्विनिताः संजातविना दृष्टीनां पाताः प्रसादा येषां ते तथोक्ताः, मदोद्धता मृगाः प्रत्यनिलमनिलाभिमुखं मर्मरा मर्मर-


पाठा०-१ निवेश्य. २ प्रियालु पियाल.


टिप्प०-1 'असूत सद्यः' (३४२६) इत्यत आरभ्यात्रावधि वसन्तर्तुतुभूतं स्थावराणां

विकारं वर्णयामास कालिदाप्तः। 2 इतःपरं वसन्तर्तुहेतुकं जङ्गमानां विकारं वर्णयति ।