पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
[ सर्गः ३
कुमारसंभवे

इत्यादि । सपल्लवानि कुसुमान्यसूत , उभयमप्यजीजनदित्यर्थः । आसिञ्जितो नृपुरो यस्य तेन । सिञ्जधातोरकर्मकात् 'गत्यर्थाकर्मक-' (पा. ३।४।७२) इत्यादिना कर्तरि क्तः । सुन्दरीणां पादेन संपर्क ताडनं नापैक्षत । 'सनूपुररवेण स्त्रीचरणेनाभिताडनम् । दोहदं यदशोकस्य ततः पुष्पोद्गमो भवेत् ॥' इति । तथा हि- 'पादाहतः प्रमदया विकसत्यशोकः शोकं जहाति बकुलो मुखसीधुसिक्तः। आलो कितः कुरबकः कुरुते विकासमालोडितस्तिलक उत्कलिको विभाति' इति ॥२६॥

 सद्यः प्रवालोद्गमचारुपत्रे नीते समाप्ति नवचूतबाणे ।
 निवेशयामास मधुर्द्धिरेफान्नामाक्षराणीव मनोभवस्य ॥ २७ ॥

 सद्य इति ॥ मधुर्वसन्त एवेषुकारः प्रवालोद्गमाः पल्लवाङ्कुरा एव चारूणि पत्राणि पक्षा यस्थ तस्मिन् । 'पत्रं वाहनपक्षयोः' इत्यमरः । नवं चूतं चूतकुसुमं तदेव बाणस्तस्मिन्नवचूतबाणे समाप्तिं नीते सति सद्यो मनोभवस्य धन्विनो नामाक्षराणीव द्विरेफान्भ्रमरान्निवेशयामास निदधौ । अत्र 'प्रवालपत्रे' इत्याद्येकदेशविवर्तिरूपकं मधोरिषुकारत्वरूपं यन्नामाक्षराणीवेत्युत्प्रेक्षायां निमित्तमित्येकदेशविवर्तिरूपकोत्थापितेयमुत्प्रेक्षा ॥ २७ ॥

 वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः ।
 प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः ॥२८॥

 वर्णेति ॥ कर्णिकारं कर्णिकारकुसुमम् । 'अवयवे च प्राण्योषधिवृक्षेभ्यः' (पा. ४।३।१३५) इत्युत्पन्नस्य तद्धितस्य 'पुष्पमूलेषु बहुलम्' (वा. २९५०) इति लुक् । एवमन्यत्रापि द्रष्टव्यम् । वर्णप्रकर्षे वर्णोत्कर्षे सत्यपि निर्गन्धतया हेतुना चेतो दुनोति स्म पर्यतापयत् । 'लट् स्मे' (पा. ३।२।११८) इति भूतार्थे लट् । तथा हि-प्रायेण विश्वसृजो विधातुः प्रवृत्तिर्गुणानां सामग्र्यविधौ साकल्यसंपादनविषये पराङ्मुखी । सर्वत्रापि वस्तुनि किंचिद्वैकल्यं संपादयति, यथा चन्द्रे कलङ्कः । अतः कर्णिकारेऽपि नैर्गन्ध्यं युज्यत इति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासोऽलंकारः ॥ २८ ॥


पाटा०- १ सख्युः. २ निगन्धमिति.


टिप्प०---1 'शरा हि स्वामिनामाङ्किता भवन्ति । मनोभवस्येति काकाक्षिगोलकन्यायेनोभयत्र संबन्धः' इति बाल० ।