पृष्ठम्:कीदृशं संस्कृतम्?.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कीदृशं संस्कृतम् ? अध्यायः १ "विदुषां मतानि"

 प्रायः सर्वे जनाः कथयन्ति, यत्संस्कृतं प्रचलितरुपे अत्यन्तं कठिनं विद्यते|
अत एव तत्कदापि राष्ट्रभाषा, भाषण-भाषा, अन्ताराष्ट्रीय भाषा च भवितुं न अर्हति पुर्ववत्|इदं सत्यं अस्ति| अस्याः कठिनतायाः कारणाणानि विविधानि सन्ति,परन्तु तेषु "नियमरुपेण वाक्ये सन्धिप्रयोगः" 'प्रधानकारणम्'|अत एव अस्मिन् पुस्तके सन्धिप्रयोगः न करिष्यते,परं अचि परे सति अपि मान्तस्य पदस्य अनुस्वारः करिष्यते,येन संस्कृते सारल्य आगच्छेत्,सर्वे जना अबाधरुपेण संस्कृतं वक्तुं लेखितुं च शक्नुयुः,तथा शब्दा स्वरुपे तिष्ठेयुः,विरुपतां न गृह्णीयुः|संस्कृतज्ञाः मन्यन्ते एव यत् सन्धिविषयः वैकाल्पकः- इच्छाधीनः,अत एव इच्छाधीनत्वात् तस्य प्रयोगः क्रियेत न वा|परं वस्तुतः 'असंहितावाक्ये' व्याकरणसम्मतः नियमः अस्ति|अस्मिन् पुस्तके इदं अपि सिद्धं करिष्यते,यत् संस्कृतं अत्यन्तं सरल अस्ति|वाक्येषु सन्धिरहितं संस्कृतं अद्य एव राष्ट्रभाषा|जनताभाषा च भवितुं अर्हति पुर्ववत्|संस्कृते पुर्णतया सारल्यस्य आनयनाय अन्यानि संशोधनानि