पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अ. १.]
७७
कामधेनुसहिता।

 आरोहस्य क्रमः अवरोहस्य च क्रमः, आरोहावरोहक्रमः ; क्रमेणारोहणमवरोहणं चेति केचित् ।

 यथा- 'निवेशः स्वःसिन्धोस्तुहिनगिरिवीथीषु जयति ।'

न पृथगारोहावरोहयोरोजःप्रसादरूपत्वात् ॥ १३ ॥

 न पृथक् समाधिर्गुणः, आरोहावरोहयोरोजःप्रसादरूपत्वात् । ओजोरूपश्चारोहः, प्रसादरूपश्चावरोह इति ।

नासंपृक्तत्वात् ॥ १४ ॥

 यदुक्तमोजाप्रसादरूपत्वमारोहावरोहयोः, तन्न; असंपृक्तत्वात् । संपृक्तौ खल्वोजःप्रसादौ नदीवेणिकावद्वहतः ।

अनैकान्त्याच्च ॥ १५ ॥

 न चायमेकान्तः नियमः ; यदोजस्यारोहः ; प्रसादे चावरोह इति ।


इति । नरा इत्यत्र शैथिल्यादवरोहः । शीलभ्रष्टा इत्यत्र गुर्वक्षरप्रचुरत्वादारोहः । अस्यैव लक्षणवाक्यस्यान्यैरभिहितमर्थमभ्यनुजिज्ञासुरनुवदति --आरोहस्य क्रम इति । निःश्रेणिकारोहावरोहन्यायेन क्रमेणारोहणम् , क्रमेण चावरोहणमिति लक्षणवाक्यार्थः । उदाहरति-निवेश इति । 'निवेशः स्वःसिन्धोः' इत्यत्र निःश्रेणिकाक्रमेणारोहः । 'तुहिनगिरि--' इत्यत्रावरोहः ।

 ननु लक्षणवाक्यार्थपर्यालोचनया समाधेरोजःप्रसादानतिरेकान्न पृथक्त्वमिति शङ्कामङ्कुरयितुमुत्तरसूत्रमुपक्षिपति- न पृथगिति । व्याचष्टे ---- न पृथक् समाधिरिति ।

 आरोहावरोहावोजःप्रसादरूपौ न भवतः, असंपृक्तत्वात् । अतः परस्परच्छायानुकारितया संपृक्तयोरोजःप्रसादयोर्न समाघिरन्तर्भवतीत्यभिसंधाय सिद्धान्तसूत्रं व्याचष्टे--यदुक्तमिति । संपृक्तत्वं सदृष्टान्तमुपपादयति-संपृक्तौ खल्विति । संपृक्तसरिद्द्वयसलिलन्यायेन संपृक्तावोजःप्रसादाविति तद्विलक्षणयोरारोहावरोहयोः संपृक्तत्वव्यतिरेकादसंपृक्तत्वहेतोरसिद्धिरुद्धृता ।