पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७६
[अधि. ३.
काव्यालंकारसूत्रवृत्तिः।

 मार्गस्य अभेदः मार्गाभेदः समता । येन मार्गेणोपक्रमः, तस्य अत्याग इत्यर्थः, श्लोके प्रबन्धे चेति । पूर्वोक्तमुदाहरणम् ।

 विपर्ययस्तु यथा--

  'प्रसीद चण्डि ! त्यज मन्युमञ्जसा
   जनस्तवायं पुरतः कृताञ्जलिः।
  किमर्थमुत्कम्पितपीवरस्तन-
   द्वयं त्वया लुप्तविलासमास्यते ॥'

आरोहावरोहक्रमः समाधिः ॥ १२॥

 आरोहावरोहयोः क्रम आरोहावरोहक्रमः समाधिः परिहारः । आरोहस्यावरोहे सति परिहारः, अवरोहस्य वा आरोहे सतीति ।

 तत्रारोहपूर्वकोऽवरोहो यथा-

 'निरानन्दः कौन्दे मधुनि परिभुक्तोज्झितरसे ।'

 अवरोहपूर्वकस्त्वारोहो यथा-'नराः शीलभ्रष्टा व्यसन इव मज्जन्ति तरवः ।'


समतेत्यर्थः । तस्या विषयं दर्शयति- श्लोके प्रवन्धे चेति । किमत्रोदाहरणमिति चेदाह- पूर्वोक्तमिति । अस्त्युत्तरस्यामित्यादि । प्रत्युदाहरणमाह-विपर्ययस्त्विति । प्रसीद त्यजेति कर्तृवाचितया प्रक्रान्तस्य मार्गस्य आस्यत इत्यत्र त्यागान्न समता ।

 पञ्चमं गुणं प्रपञ्चयितुमाह- आरोहावरोहक्रम इति । अत्र स्वाभिमतं तावदेकमर्थं लक्षणवाक्यस्य समर्थयते- समाधिः परिहार इति । अवरोहे प्रवर्तमाने सत्यारोहस्य प्रवृत्तस्य परिहारः परित्यागः; आरोहे च सत्यवरोहस्य परिहारः; आरोहावरोहयोर्विरुद्धत्वेन यौगपद्यासंभवादिति भावः । दीर्घादिगुर्वक्षरप्राचुर्ये आरोहः । लघ्वादिशिथिलप्रायत्वे चावरोह इति द्रष्टव्यम् । तथा च आरोहपूर्वकोऽवरोहः, क्वचिदवरोहपूर्वक आरोह इति समाधेर्द्वैविध्यमुक्तं भवति । तत्राद्यमुदाहरति-आरोहपूर्वक इति । 'निरानन्दः कौन्दे' इत्यत्र गुर्वक्षरबाहुल्यादारोहः । मधुनीत्यत्र लघ्वक्षरप्राचुर्यादवरोहः । द्वितीयमुदाहरति----अवरोहपूर्वक