पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२
[अधि. ३.
काव्यालंकारसूत्रवृत्तिः।

काव्यस्य' इति शब्दार्थयुगलकाव्यशरीरस्य रीतिमात्मानमुपपाद्य, 'विशिष्टा पदरचना रीतिः' इति रीतिं लक्षयित्वा, 'विशेषो गुणात्मा' इति गुणमात्रस्यैवात्मभूतरीतिनिष्ठत्वे प्रतिष्ठापिते यमकोपमादीनामलंकाराणां तच्छरीरभूतशब्दार्थनिष्ठत्वमर्थात्समर्थितं भवति । अत एवौजःप्रसादादीनां गुणत्वं यमकोपमादीनामलंकारत्वमिति च व्यपदेशभेदोऽप्युपपद्यते । एवञ्च सति 'पूर्वे नित्याः' इति सूत्रे गुणानां नित्यत्वम् अलंकाराणाम् अनित्यत्वमासूत्रयता सूत्रकृता गुणानां काव्यव्यवहारप्रयोजकत्वमुक्तं भवति । यथा च परमते व्यङ्गयस्य प्राधान्ये ध्वनिरुत्तमं काव्यम् , गुणभावे गुणीभूतव्यङ्गयं मध्यमं काव्यम् , संभावनामात्रे चित्रमवरं काव्यमिति काव्यभेदाः कथिताः ; तथात्रापि गुणसामग्र्ये वैदर्भी, अविरोधिगुणान्तरानिराधेन ओजःकान्तिभूयिष्ठत्वे गौडीया, माधुर्यसौकुमार्यप्राचुर्ये पाञ्चालीति काव्यभेदाः कथ्यन्ते । रीतिध्वनिवादमतयोरियांस्तु भेदः- तत्र प्रथमे रीतिरात्मा काव्यस्य; तद्व्यवहारप्रयोजका गुणाः । चरमे तु ध्वनिरात्मा; स एव तद्व्यवहारप्रयोजक इति । उभयत्राप्यात्मनिष्ठा गुणाः । शब्दार्थयुगलं शरीरम् ; तन्निष्ठा अलङ्कारा इति च सर्वमविशिष्टम् । ततश्च ‘किं समस्तैर्गुणैः काव्यव्यवहारः ? उत कतिपयैः ? यदि समस्तैस्तत्; कथमसमस्तगुणा गौडीया पाञ्चाली वा रीतिः काव्यस्यात्मा । अथ कतिपयैः; ‘अद्रावत्र प्रज्वलत्यग्निरुच्चैः प्राज्यः प्रोद्यन्नुल्लसत्येष धूमः' इत्यादावोजःप्रभृतिषु गुणेषु सत्सु काव्यव्यवहारप्राप्तिः । ‘स्वर्गप्राप्तिरनेनैव देहेन वरवर्णिनि । अस्या रदच्छदरसो न्यक्करोतितरां सुधाम्' इत्यादौ गुणनैरपेक्ष्येण विशेषोक्तिव्यतिरेकालङ्कारयोरेव काव्यव्यवहारप्रयोजकत्वं च दृश्यते' इति स्वसंकल्पमात्रकल्पितविकल्पानां नावश्यमवकाशं पश्यामः । अथापि यदि पाण्डित्यकण्डूलवैतण्डिकचण्डिम्ना चिखण्डयिषा परस्य, तर्हि स्वमतं पृष्टः स्वयमेवाचष्टाम् ; 'तददोषौ शब्दार्थौ सगुणावनलंकृती पुनःक्वापि' इति काव्यसामान्यलक्षणे शब्दार्थयोर्गुणसाहित्यमिष्यते । 'काव्यस्यात्मा रसः' इति चोच्यते । तत्र किं गुणसमष्टिविशिष्टं काव्यम् ? तद्व्यष्टिवि-

केनचिदभिप्रायेण भिन्नतयोक्तौ । इतरे तु हेतुविचारं विनैव तदनुसारेण तद्भेदं वदन्तीति’ तस्याभिप्रायः । "गड्डरिका अज्ञातप्रवाहागमस्थानो धारावाहिकप्रवृत्तो नदीविशेष इति केचित् । मेषयूथैरनुगम्यमाना मेषीत्यन्ये । तन्न्यायेन भ्रान्तपरम्परैव भेदो व्यवह्रियते’ इति तु चक्रवर्तिप्रभृतयः ।