पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अ. २.]
७१
कामधेनुसहिता।

 पूर्वे गुणा नित्याः, तैर्विना काव्यशोभानुपपत्तेः ।

 एवं गुणालंकाराणां भेदं दर्शयित्वा शब्दगुणनिरूपणार्थमाह--

ओजःप्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्यो-

दारतार्थव्यक्तिकान्तयो बन्धगुणाः ॥ ४ ॥

 बन्धः पदरचना, तस्य गुणाः बन्धगुणाः ओजःप्रभृतयः ।

 'विरुद्धधर्माध्यासो भावं भिन्द्यात्' इति न्यायेन नित्यत्वानित्यत्वाभ्यामपि गुणालंकारभेदः सिद्ध इति दर्शयितुमाह-पूर्वे नित्या इति । पूर्वे गुणा नित्या इत्युक्ते अन्ये पुनरलंकारा अनित्या इति गम्यत एव । गुणानां नित्यत्वे हेतुः - तैर्विनेति । गुणान्वयव्यतिरेकानुविधायित्वात् काव्यशोभाया इत्यर्थः।

 एवमभेदमतं खण्डितम् । अथोक्तानुवादपूर्वकमुद्देशसूत्रमुदीरयति- एवमिति । शब्दगुणेति । शब्दनिष्ठा गुणाः शब्दगुणाः । वस्तुतो रीतिधर्मत्वेऽपि गुणानामात्मलाभस्य शब्दार्थाधीनत्वात् तस्य निरूप्यत्वाच्च शब्दार्थधर्मत्वमुपचारादुक्तम् । अथेदानीं मुख्यया वृत्त्या रीतिधर्मत्वमिति आत्मसिद्धान्तमाविष्कुर्वन् सौत्रं पदं व्याकरोति- बन्धः पदरचना, तस्य गुणा इति । न तु शब्दार्थयोरिति शेषः । एवं च सति उपक्रमोपसंहारलिङ्गैराचार्यतात्पर्यपर्यालोचनायामात्मभूतरीतिनिष्ठाः गुणाः, तच्छरीरभूतशब्दार्थनिष्ठाः पुनरलंकारा इति निश्चीयते । अतो मन्यामहे- गुणत्वादोजःप्रभृतीनामात्मनि समवायवृत्त्या स्थितिः, अलंकारत्वाद्यमकोपमादीनां शरीरे संयोगवृत्त्या स्थितिरिति ग्रन्थकारस्याभिमतम् -इति । न ह्यविपश्चिदपि कश्चिदभिजानीयादभिवदेद्वा-- गुणानामात्मनि रीताविव, अलंकाराणां शरीरभूते शब्दार्थयुगले समवायवृत्त्या स्थितिरिति । एवं च गुणालंकाराणामुभयेषामपि समवायवृत्त्या स्थितिरित्यभिमन्यमानैः, 'भेदाभिधानं गण्ड्डरिकाप्रवाहनयेन इति यदुक्तम् , तन्निरस्तम् । किंच, 'रीतिरात्मा


1. गड्डलिकेति पाठान्तरम् । 'गडलिका मेषी काचिदेका केनचिद्धेतुना पुरो गच्छति । इतरास्तु विनैव निमित्तविचार तामनुगच्छन्ति । तथा केनाप्यालंकारिकेण गुणालंकारौ