पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अ. २.]
६५
कामधेनुसहिता।

 स्वभावविरुद्धं यथा- 'मत्तालिमङ्खमुखरासु च मञ्जरीषु सप्तच्छदस्य तरतीव शरन्मुखश्रीः।'

 सप्तच्छदस्य स्तबका भवन्ति, न मञ्जर्य इति स्वभावविरुद्धम् ।

 तथा-

  'भृङ्गौघैः कलिकाकोशस्तथा भृशमपीड्यत ।
  यथा गोष्पदपूरं हि ववर्ष बहुलं मधु ।'

 कलिकायाः सर्वस्या मकरन्दस्यैतावद्बाहुल्यं स्वभावविरुद्धम् ।

कलाचतुर्वर्गशास्त्रविरुद्धार्थानि विद्याविरुद्धानि ॥ २४ ॥


नानार्थरत्नमाला । प्रावृषि प्रसवोद्गमशालिनः कदम्बस्य वसन्ते प्रसूनप्रसङ्गासंभवात् कालविरोधः । मत्तालिमङ्खेति । मङ्खः स्तुतिपाठकः । 'नान्दीकारश्चाटुकारो मङ्खश्च स्तुतिपाठकः' इति वैजयन्ती । स्तबकाः गुच्छाः । 'स्याद्गुच्छकस्तु स्तबकः' इत्यमरः । ते नाम स्तबकाः, पुष्पाणि पुञ्जीभूय यत्र वर्तन्ते । मञ्जर्यः वल्लयः । 'वल्लरी मञ्जरी स्त्रियाम्' इत्यमरः । यत्र आयामवती प्रसूनपरिपाटी, ता एव मञ्जर्यः । अतः सप्तच्छदस्य स्वभावतो गुच्छा एव, न तु मञ्जर्यः संभवन्तीति स्वभावविरुद्धम् । भृङ्गौघैरिति । कलिका कोरकः । अनुद्भिन्नमुकुला कलिका कलिकाकोशः । तत्र गोष्पदपूरणपर्याप्तस्य मधुनोऽसंभवात् स्वभावविरुद्धम् । गोष्पदपूरमित्यत्र- गोः पदं प्रमाणतया अवच्छेदकमस्य वर्षस्येत्यस्मिन्नर्थे गोष्पदमिति भवति ; 'गोष्पदं सेवितासेवितप्रमाणेषु' इति गोष्पदशब्दो निपातितः । गोष्पदं पूरयित्वा ववर्ष गोष्पदपूरं ववर्ष। 'वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्' इति णमुल् । लोकविरुद्धमपि क्वचित्कविसमयप्रसिद्धेः प्राबल्यान्न दुष्टम् ; यथा--- 'सुसितवसनालंकारायां कदाचन कौमुदीमहसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः । तदनु भवतः कीर्तिः केनाप्यगीयत येन सा प्रियगृहमगान्मुक्ताशङ्का के नासि शुभप्रदः ॥' इति । एवमन्यत्रापि लोकयात्राकविमर्यादयोर्विप्रतिषेधे पूर्वदौर्बल्यमवगन्तव्यम् ।

 विद्याविरुद्धानि विवरीतुमाह-- कलाचतुर्वर्गेति । शास्त्रपदस्योभयत्र