पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४
[अधि. २.
काव्यालंकारसूत्रवृत्तिः।

 उद्देशिनाम् अनूद्देशिनां च क्रमः संबन्धः; तेन हीनोऽर्थो यस्मिन्, तत् क्रमहीनार्थमपक्रमम् ।

 यथा --- 'कीर्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ ।'

 अत्र कीर्तिश्चन्द्रमसस्तुल्या; प्रतापः सूर्यस्य तुल्यः । सूर्यर्स्य पूर्वनिपातादक्रमः।

 अथवा प्रधानस्यार्थस्य प्रथमनिर्देशः क्रमः; तेन हीनोऽर्थो यस्मिन् तदपक्रमम् ।

 यथा- 'तुरङ्गमथ मातङ्गं प्रयच्छास्मै मदालसम् ।'

 देशकालस्वभावविरुद्धार्थानि लोकविरुद्धानि ॥ २३ ॥

 देशकालस्वभावैर्विरुद्धोऽर्थो येषु, तानि देशकालस्वभावविरुद्धार्थानि वाक्यानि लोकविरुद्धानि। अर्थद्वारेण लोकविरुद्धत्वं वाक्यानाम् ।

 देशविरुद्धं यथा---

  सौवीरेष्वस्ति नगरी मधुरा नाम विश्रुता ।
  आक्षोटनालिकेराढ्या यस्याः पर्यन्तभूमयः ॥'

 कालविरुद्धं यथा- 'कदम्बकुसुमस्मेरं मधौ वनमशोभत ।'

प्रथमतः क्रममेकं प्रथयितुमाह- उद्देशिनामिति । तेन हीनः तदभाववान् । उदाहरणमुज्ज्वलार्थम् । अन्यं क्रममभिधत्ते--- अथवेति । प्रधानस्य अभ्यर्हितस्येत्यर्थः । मातङ्गं तुरङ्गं वा प्रयच्छेति वक्तव्ये व्युत्क्रमेणोक्तं वाक्यमस्य कवेरनभिज्ञतामापादयतीति दुष्टम् ।

 लोकविरुद्धं दर्शयितुमाह-देशकालस्वभावविरुद्धार्थानीति । अर्थद्वारेणेति। विरुद्धार्थप्रतिपादकत्वाद्वाक्यानि विरुद्धानि व्यपदिश्यन्ते । क्रमेणोदाहरति-देशविरुद्धमिति । सौवीरेष्विति । आक्षोटाः शैलोत्पन्ना गुडफलवृक्षाः । 'पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसंभवे । आक्षोटकन्दरालौ द्वौ' इत्यमरः । यमुनातीरवर्तिन्या मधुराया नगर्याः सौवीरेषु देशेष्वसंभवात् देशविरोधः । कदम्बति । मधुर्वसन्तः । 'चैत्रवसन्तमधुद्रुमदैत्यविशेषेषु पुंसि मधुशब्दः' इति