पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अ. २.]
६३
काव्यालंकारसूत्रवृत्तिः।

संशयकृत्संदिग्धम् ॥ २० ॥

 यद्वाक्यं साधारणानां धर्माणां श्रुतेः, विशिष्टानां चाश्रुतेः संशयं करोति ; तत् संशयकृत् संदिग्धमिति ।

 यथा- ‘स महात्मा भाग्यवशान्महापदमुपागतः ।'

 किं भाग्यवशान्महापदमुपागतः, आहोस्विदभाग्यवशान्महतीमापदमिति संशयकृत् वाक्यं प्रकरणाद्यभावे सतीति ।

मायादिविकल्पितार्थमयुक्तम् ॥ २१ ॥

 मायादिना विकल्पितोऽर्थो यस्मिंस्तन्मायादिविकल्पितार्थमयुक्तम् । अस्तोकमुदाहरणम् ।

क्रमहीनार्थमपक्रमम् ॥ २२ ॥


 इत्थमेकार्थं समर्थ्य, संदिग्धं समर्थयितुमाह-संशयकृत्संदिग्धमिति । व्याचष्टे-यद्वाक्यमिति । विशिष्टानामिति । असाधारणानामित्यर्थः । उक्तलक्षणमुदाहरणे योजयति--- किं भाग्यवशादिति । लक्षणं विशिनष्टि प्रकरणादिति । अत्रादिपदेन संयोगादयो गृह्यन्ते । यथोक्तं हरिणा, 'संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥' इति ।

 अयुक्तं व्यक्तयितुमाह-मायादिविकल्पितार्थमयुक्तमिति । मायादिना कुशलमतिकुण्ठनपटिष्ठकुहनादिना विकल्पितः विरुद्धतया कल्पितः अर्थो यस्मिंस्तद्वाक्यमयुक्तं भवति । अस्तोकमुदाहरणमिति । विवृतं हि विदग्धमुखमण्डने, 'प्राहुर्व्यस्तं समस्तं च द्विर्व्यस्तं द्विःसमस्तकम् । तथा व्यस्तसमस्तं च द्विर्व्यस्तकसमस्तके ॥' इत्यादिना ।

 क्रमहीनार्थमपक्रममिति । प्रतियोगिप्रतिपत्तिपूर्वकत्वात् क्रमाभावप्रतिपत्तेः