पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

६० काव्यालंकारसूत्रवृत्तिः अधि, २. धनुर्ज्याध्वनावित्यत्र ज्याशब्देनोक्तार्थत्वेऽपि धनुःश्रुतिः प्रयुज्यते, आरूढेः प्रतिपत्त्यै आरोहणस्य प्रतिपत्त्यर्थम् । न हि धनुःश्रुतिमन्तरेण धनुष्यारूढा ज्या धनुर्ज्येति शक्यं प्रतिपत्तुम् । यथा- 'धनुर्ज्याकिणचिह्नेन दोष्णा विस्फुरितं तव ।' इति । कर्णावतंसश्रवणकुण्डलशिरःशेखरेषु कर्णादि- निर्देशः संनिधेः ॥ १४ ॥ कर्णावतंसादिशब्देषु कर्णादीनामवतंसादिपदैरुक्तार्थानामपि नि- र्देशः संनिधेः प्रतिपत्त्यर्थमिति संबन्धः । न हि कर्णादिशब्दनिर्देशम- न्तरेण कर्णादिसंनिहितानामवतंसादीनां शक्या प्रतिपत्तिः कर्तुमिति । यथा- 'दोलाविलासेषु विलासिनीनां कर्णावतंसाः कलयन्ति कम्पम् ।' 'लीलाचलच्छ्रवणकुण्डलमापतन्ति ।' 'आययुर्भृङ्गमुखराः शिरःशेखरशालिनः।' धनुर्ज्याध्वनाविति । श्रुतिरत्र वाचकः शब्दः । स्पष्टमवशिष्टम् । धनुर्ज्याकिणेति । ज्याशब्दमात्रप्रयोगे ज्याबन्धनेनापि किणसंभवात् भवेदनौचि- त्यम् । तथा च प्रयोगः, 'ज्याबन्धनिष्पन्दभुजेन यस्य' इति । उक्तन्यायमन्यत्रापि संचारयितुमाह- कर्णावतंसेत्यादि । उक्तार्थानामपीति । अवतंसादिभि कर्णाभरणादीन्येवोच्यन्त इति अवतंसादिप्रयोगे कर्णादीनां गतार्थत्वमित्यभिप्रायः । अन्वयं द्रढयितुं व्यतिरेकमाह --- न हीति । ‘कर्णावतंसाः कलयन्ति कम्पम्' 'लीलाचलच्छ्रवणकुण्डलमापतन्ति' इत्यत्र लीलाचलनक्रियायोगादारूढप्रतिपत्तिर्भवत्येव । अतः ‘अस्याः कर्णावतंसेन जितं सर्वं विभूषणम् । तथैव शोभतेऽत्यन्तमस्याः श्रवणकुण्डलम् ' इत्यायुदाहर्तव्यम् । आययुरिति । स्पष्टार्थम् । धनुर्ज्यादिसूत्र एवैकत्र कर्णावतंसादीनामपि परिगणने कर्तुं शक्येऽपि प्रयोजनभेदं प्रतिपादयितुं सूत्रभेदः कृत इति द्रष्टव्यम् ।