पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८
[अधि. २.
काव्यालंकारसूत्रवृत्तिः।

 'चकाशे पनसप्रायैः पुरी षण्डमहाद्रुमैः ।'

 'विना शपथदानाभ्यां पदवादसमुत्सुकम् ।'

 कष्टत्वं यथा-

 'मञ्जर्युद्गमगर्भास्ते गुर्वाभोगा द्रुमा वभुः ।'

 एवं वाक्यदोषानभिधाय वाक्यार्थदोषान् प्रतिपादयितुमाह--

व्यर्थैकार्थसंदिग्धायुक्तापक्रमलोकविद्याविरुद्धानि च ॥९॥

 वाक्यानि दुष्टानीति संबन्धः ॥

 क्रमेण व्याख्यातुमाह-

व्याहतपूर्वोत्तरार्थं व्यर्थम् ॥ १० ॥

 व्याहतौ पूर्वोत्तरावर्थौ यस्मिंस्तत् व्याहतपूर्वोत्तरार्थं वाक्यं व्यर्थम् ।

 यथा-- ‘अद्यापि स्मरति रसालसं मनो मे मुग्धायाः स्मरचतुराणि चेष्टितानि ।'

 मुग्धायाः कथं स्मरचतुराणि चेष्टितानि ? तानि चेत् कथं मुग्धा?

विरेचकं रेचकविहीनम् । अत एवाचार्याभासयोजितम् यः स्वयमनाचार्य आचार्यवदवभासते, सोऽयमाचार्याभासः; तेन योजितम् । अत्र विरेचकयाभशेपपुरीषविनाशपदविन्यासैः, विरेचनमिथुनीभावमेहनपुरीषविनाशप्रतीतेस्त्रिविधान्यश्लीलानि द्रष्टव्यानि ।

 कष्टत्वमुदाहर्तुमाह- कष्टत्वं यथेति ॥  उक्तवक्तव्यसंगतिपूर्वकमुत्तरसूत्रमवतारयति---एवमिति । चकारेण समुच्चयमाह-वाक्यानि दुष्टानीति संबन्ध इति ।

 व्याहतौ परस्परविरुद्धावित्यर्थः । मुग्धायाः कथं स्मरचतुराणि चेष्टितानीति । न कथंचित्संभवन्ति, व्याहतत्वादित्यर्थः । व्याहतिमेव व्याह-