पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६
[अधि. २.
काव्यालंकारसूत्रवृत्तिः।

न वृत्तदोषात्पृथग्यतिदोषो वृत्तस्य

यत्यात्मकत्वात् ॥ ५॥

 वृत्तदोषात् पृथक् यतिदोषो न वक्तव्यः, वृत्तस्य यत्यात्मकत्वात् । यत्यात्मकं हि वृत्तमिति भिन्नवृत्त एव यतिभ्रष्टस्यान्तर्भावान्न पृथग्ग्रहणं कार्यम् ।

अत आह-

न लक्ष्मणः पृथक्त्वात् ॥ ६ ॥

 नायं दोषः। लक्ष्मणो लक्षणस्य पृथक्त्वात् । अन्यद्धि लक्षणं वृत्तस्य, अन्यच्च यतेः---- गुरुलघुनियमात्मकं वृत्तम् । विरामात्मिका च यतिरिति ।

विरूपपदसंधि विसंधि ॥ ७ ॥

 पदानां संधिः पदसंधिः । स च स्वरसमवायरूपः प्रत्यासत्तिमात्ररूपो वा । स विरूपो यस्मिन्निति विग्रहः॥ ननु भिन्नवृत्तयतिभ्रष्टयोरर्थतो भेदाभावात् न पृथक्कथनमर्थवदिति शङ्कामङ्कुरयितुमुपरितनं सूत्रमुपन्यस्यति-- न वृत्तेति । गुरुलधुनियमवत् यतिनियमस्यापि वृत्तलक्षणवाक्येनैवावगन्तव्यत्वात् यतिविशिष्टं च वृत्तमिति वृत्तदोषे एव यतिदोषोऽन्तर्भवतीति शङ्कितुरभिप्रायः ।

 शङ्कामिमां शकलयितुमुत्तरसूत्रमुपादत्ते-- न लक्ष्मणः पृथक्त्वादिति। यतिवृत्तयोर्लक्षणभेदात् स्वरूपभेदोऽङ्गीकर्तव्यः । तथा च वृत्तदोषे यतिदोषस्यान्तर्भावो दुर्भण इति भावः । लक्षणभेदमेवाह ---- गुरुलघ्विति । स्थानविरामेऽपि गुरुलघुविपर्यासे भवति वृत्तभङ्गः । अस्थानविरामात्मके यतिभङ्गेऽपि यथोक्तगुरुलघुनियमे सति न वृत्तभङ्ग इत्यन्वयव्यतिरेकाभ्यां भिन्नवृत्तयतिभ्रष्टयोर्भिन्नत्वात् पृथक्कथनमर्थवदित्यर्थः ।

 अथ विसंधि वाक्यं विवरीतुमाह--विरूपपदसंधीति। स चेति। किंचिद्भावालसम्' इत्यत्र स्वरसमवायरूपः । 'ते गच्छन्ति प्रभुपरिबृढम्' इत्यत्र प्रत्यासत्तिरूपः ।