पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४
[अधि. २.
काव्यालंकारसूत्रवृत्तिः।

विरसविरामं यतिभ्रष्टम् ॥ ३॥

 विरसः श्रुतिकटुः विरामो यस्मिन् , तत् विरसविरामं यतिभ्रष्टम् ।

तद्धातुनामभागभेदे स्वरसंध्यकृते प्रायेण ॥ ४ ॥

 नत् यतिभ्रष्टं धातुभागभेदे नामभागभेदे च सति भवति स्वरसंधिना अकृते प्रायेण बाहुल्येन ।

  धातुभागभेदे मन्दाक्रान्तायां यथा--
   'एतासां राजति सुमनसां दाम कण्ठावलम्बि ।'

  नामभागभेदे शिखरिण्यां यथा--
   'कुरङ्गाक्षीणां गण्डतलफलके स्वेदविसरः।'

न्तर्यं निषिद्धम् । अत्र 'अविरलसुम---' इति समपादे षडपि लघ्वक्षराणि प्रयुक्तानीति लक्षणच्युतत्वम् ॥

 द्वितीयं व्याख्यातुं सूत्रमुपादत्ते-- विरसविराममिति । विरामो विच्छेदनियमः । शेषं सुगमम् ।

 तद्विभागं दर्शयितुमाह- तदिति । धातुः भूवादिः । नाम प्रातिपदिकम् । धातोः प्रातिपदिकस्य वा भागतो भेदे अंशतो विच्छेदे। भागभेदमेव विशिनष्टि---- स्वरसंध्यकृत इति । स च भागभेदो यदि स्वरसंधिना कृतो न स्यात्, तस्मिन् भागभेदे सति यतिभ्रष्टं नाम दुष्टं भवति । स्वरसंधिकृते तु भागभेदे न दुष्टमिति सूचितम् । तत्र प्रथममुदाहर्तुमाह-- धातुभागभेद इति । एतासामिति । मन्दाक्रान्ताख्यमिदं वृत्तम् । 'मन्दाक्रान्ता जलधिषडगैम्भौ न तौ तो गुरू चेत् इति तल्लक्षणादादितश्चतुर्भिः, ततः षड्भिः, ततः सप्तभिर्वर्णेविरामः कर्तव्यः । तथा सति । एतासां स-' इत्यत्र धातुभागभेदे प्राप्तस्य तस्य वैरस्यादिदं वाक्यं यतिभ्रष्टं नाम दुष्टं भवति । द्वितीयमुदाहरति-नामभागभेद इति । कुरङ्गाक्षीणामिति । शिखरिणीवृत्तमिदम् । 'रसै रुद्वैश्छिन्ना यमनसभला गः शिखरिणी' इति लक्षणादादितः षड्भिः. तत एकादशभिर्यतिः कर्तव्या। ततश्च