पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०
[अधि. २.
काव्यालंकारसूत्रवृत्तिः।

 किंचित् व्रीडादायि । यथा--- ' वाक्काटवम्' इति ।

 किंचित् जुगुप्सादायि । यथा-- · कपर्दकः' इति ।

 किंचित् अमङ्गलातङ्कदायि । यथा- 'संस्थितः' इति ।

व्यवहितार्थप्रत्ययं क्लिष्टम् ॥ २१ ॥

 अर्थस्य प्रतीतिः अर्थप्रत्ययः । स व्यवहितो यस्मात् भवति, तत् व्यवहितार्थप्रत्ययं क्लिष्टम् ।

 यथा--'दक्षात्मजादयितवल्लभवेदिकानां ज्योत्स्नाजुषां जललवास्तरलं पतन्ति ।

 दक्षात्मजाः ताराः, तासां दयितो दक्षात्मजादयितश्चन्द्रः, तस्य वल्लभाश्चन्द्रकान्ताः. तद्वेदिकानामिति । अत्र हि व्यवधानेनार्थप्रत्ययः, अन्यत्र अरूढत्वात् । अरूढावपि यतोऽर्थप्रत्ययो झटिति, न

 कमभिसंबध्यते । तत्राद्यमुदाहर्तुमाह-- किंचिदिति वाक्काटवमिति । कटोर्भावः काटवम् , वाचः काटवं वचस्तैक्ष्ण्यमित्यर्थः । अत्र काट इत्येकदेशेन लिङ्गप्रतीतेर्व्रीडादायि, काटश्चार्णवश्च इत्यत्र मन्त्रभाष्ये तथा दर्शनात् । द्वितीयं दर्शयितुमाह---- किंचिदिति । पर्दः पायवीयपवनध्वनिः। पर्दस्तु गुदजेशब्दे कुर्दः कुक्षिजनिःस्वने' इति वैजयन्ती । अवशिष्टमश्लीलं स्पष्टयति किंचिदिति । ' प्रमीतः संस्थितो मृतः इत्यमरः ।

 क्लिष्टमाचष्टे-- व्यवहितेति । समासार्थं विग्रहेण दर्शयति- अर्थस्य प्रतीतिरिति । प्रत्ययोऽत्र ज्ञानम् । ' प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः । उदाहरति- दक्षात्मजेति । ननु नेयार्थे क्लिष्टमिदं किमिति नान्तर्भवति, व्यवहितार्थप्रत्ययहेतुस्वाविशेषादित्याशङ्कय ततो वैषम्यं दर्शयन् लक्ष्ये लक्षणमनुगमयति--- अत्र हि व्यवधानेनेति । व्यवधानमर्थप्रतिपत्तेर्विलम्बः । विलम्बेनार्थाभिधायकं क्लिष्टम् . नेयार्थं तु कल्पितार्थमिति ततो भेदः । अन्या- र्थेऽपि चेदं नान्तर्भवतीत्याह--अन्यत्रेति । प्रकृतादर्थादर्थान्तरे क्वचिदप्यरूढत्वात् अप्रसिद्धत्वात् विलम्बेनापि योगवशात् प्रकृतमर्थमभिधत्त इत्यर्थः । अप्रसि-