यथा-- 'जन्मभूः' इति । तद्धि लक्षणया गुह्यार्थम् , न स्वशक्त्येति।
लोकसंवीतं संवृतम् ॥ १९ ॥
लोकेन संवीतं लोकसंवीतं यत् , तत् संवृतम् ।
यथा-- 'सुभगा, भगिनी, उपस्थानम् , अभिप्रेतम् , कुमारी, दोहदः' इति ।
अत्र श्लोकः--
'संवीतस्य हि लोकेन न दोषान्वेषणं क्षमम् ।
शिवलिङ्गस्य संस्थाने कस्यासभ्यत्वभावना ॥
तत्त्रैविध्यं व्रीडाजुगुप्सामङ्गलातङ्कदायिभेदात् ॥ २०॥
तस्याश्लीलस्य त्रैविध्यं भवति, व्रीडाजुगुप्सामङ्गलातङ्कदायिनां भेदात् ।
च तत् असभ्यं चेति कर्मधारयः । अर्थविशेषणम् । तेनार्थेनान्वितं तादृशार्थप्रतिपादकमित्यर्थः । जन्मभूशब्देन जननस्थानसामान्यमभिधया प्रतिपाद्यते । तद्विशेषस्तु लक्षणयेति व्याचष्टे--तद्धीति। न स्वशक्त्येति । मुख्यव्यापारेणेत्यर्थः ।
लोकेन संवीतम् आवृतं परिगृहीतमित्यर्थः । सुभगादिपदान्येकदेशेन असभ्यार्थस्मृतिहेतुत्वेऽपि लोकपरिगृहीतत्वात्प्रयोज्यानि । तदुक्तं दण्डिना, भगिनीभगवत्यादि सर्वत्रैवानुमन्यते ।' इत्यादि । दोहद इति । 'हद पुरीषोत्सर्गे' इति धातुं स्मारयन्नेकदेशेन असभ्यार्थस्मृतिहेतुः ॥
अत्र प्राचीनाचार्यसंवादं प्रकटयति--- अत्र श्लोक इति । स्पष्टोऽर्थः ।
द्विविधमश्लीलं त्रेधा विभजते--- तत्त्रैविध्यमिति । तिस्रो विधाः प्रकारा यस्य तत् त्रिविधम् । 'विधा विधौ प्रकारे च' इत्यमरः । तस्य भावस्त्रैविध्यम् । ब्राह्मणादेराकृतिगणत्वात् ष्यञ् । तस्याश्लीलस्य त्रैविध्यम् । अमङ्गलस्यातङ्कः शङ्का । 'रुक्तापशङ्कास्वातङ्कः' इत्यमरः । दायिशब्दः प्रत्ये-