पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८
[अधि. २.
काव्यालंकारसूत्रवृत्तिः।

न गुप्तलक्षितसंवृतानि [१] ॥१६॥

अपवादार्थमिदम् । गुप्तं लक्षितं संवृतं च नाश्लीलम् ॥

एषां लक्षणान्याह----

अप्रसिद्धासभ्यं गुप्तम् ॥ १७ ॥

अप्रसिद्धासभ्यार्थान्तरं पदमप्रसिद्धासभ्यं यत् , तत् गुप्तम् ।

 यथा-- 'संबाधः' इति पदम् । तद्धि संकटार्थं प्रसिद्धम् , न गुह्यार्थमिति ।

लाक्षणिकासभ्यं लक्षितम् ॥ १८॥

तदेवासभ्यार्थान्तरं लाक्षणिकासभ्यान्वितं पदं लक्षितम् ।

कण्ठापरभागवाचकमपि कृकाटिकापदं काटीत्येकदेशेनासभ्यार्थस्मृतिहेतुरित्यश्लीलमित्यभिप्रायः ।

 अश्लीलस्य क्वचिदपवादं वक्तुमाह- न गुप्तेति । वृत्तिः स्पष्टार्था ।

 अप्रसिद्धेति । यस्यानेकार्थस्य पदस्यैकोऽर्थोऽसभ्योऽपि यद्यप्रसिद्धो भवति, तदप्रसिद्धासभ्यं पदं गुप्तमित्यर्थः । तदिदमभिसंधायाह -- असभ्यार्थान्तरमिति । संबाध इति । 'लेशेऽपि गन्धः संबाधो गुह्यसंकटयोर्द्वयोः।' इत्यभिधाने सत्यपि · संबाधे सुरभीणाम्' 'आसने मित्रसंबाधे' इत्यादिषु प्रयोगप्राचुर्यात् संबाधशब्दः संकटार्थः प्रसिद्धः; तदभावात् गुह्यार्थोऽप्रसिद्ध इत्यर्थः ।

 लाक्षणिकासभ्यमिति। लक्षणया सान्तरार्थनिष्ठशब्दव्यापारेण प्रतिपाद्यं लाक्षणिकम् । अध्यात्मादित्वात् भवार्थे ठञ् । तथाविधमसभ्यमर्थान्तरं यस्य, तत् लक्षितमिति सूत्रार्थः । अमुमर्थमभिसंधायाह-- तदेवेति । लाक्षणिकं

  1. 'दूषकताबीज त्वनुभवसिद्धरसापकर्षकतादृशार्थोपस्थितिः । नीरसे तु चमत्कारापकर्षकत्व तस्याः । अथवा तादृशार्थोपस्थित्या श्रोतुर्वैमुख्य तद्बीजम् । अत शमकथायां दोषत्वाभावः, तादृशोपस्थितेः शमपोषकत्वात् । भाव्यमङ्गलादिसूचने कामशास्त्रस्थितौ च न दोषत्वम् , श्रोतुर्वैमुख्याभावात् । शिवलिङ्गभगिनीब्रह्माण्डादिशब्देषु तु सवीतगुप्तलक्षितेषु असभ्यार्थानुपस्थितिः' इति प्रदीपः ।