पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३
[अधि. २.
काव्यालंकारसूत्रवृत्तिः।

नामादीनामपि प्रयोगोऽनुपपन्नः; न ; तेषां निरूढलक्षणत्वात् [१]

अप्रसिद्धार्थप्रयुक्तं गूढार्थम् ॥ १४ ॥

 यस्य पदस्य लोके अर्थः प्रसिद्धश्चाप्रसिद्धश्च, तत् अप्रसिद्धेऽर्थे प्रयुक्तं गूढार्थम् [२]। निरूढत्वेन रूढ्या योगस्य निगीर्णत्वान्न काचिदनुपपत्तिरिति परिहरति-नेति । निरूढा लक्षणा येषामिति बहुव्रीहिः । लक्षणा हि रूढिप्रयोजनवशात् द्विविधा भवति । तत्र रूढलक्षणाः कुशलादयः शब्दाः प्रयोगप्राचुर्यबलेन वाचकशब्दवत्प्रयुज्यन्ते । प्रयोजनलक्षणास्तु 'मुखं विकसितस्मितं वशितवक्रिम प्रेक्षणम्' इत्यादौ विकसितादयः शब्दाः स्मितविलासादिलक्षकतयाद्यापि प्रयुज्यन्ते । तदुक्तम् , [३] निरूढा लक्षणाः काश्चित् सामर्थ्यादभिधानवत् । क्रियन्ते सांप्रतं काश्चित्काश्चिन्नैव त्वशक्तितः ॥' इति ।

 गूढार्थं लक्षयितुमाह---- अप्रसिद्धेति । अभिमतमनेकत्वमर्थस्य दर्श-

  1. अय भाव:--'निरूढा लक्षणा काचित्' इत्युक्तरीत्या रूढिप्रयोजनाभ्यां विना यत्र निषिद्धा लक्षणा स्वीक्रियते, तत्रैव नेयार्थत्वम् । सपदीत्युदाहरणे च विहङ्गमादिपदानां तत्र तत्र लक्षणोपासने न रूढिः, नवा प्रयोजन किमपि, मुख्यशब्दार्थातिरेकेण कस्याप्यर्थस्याप्रतीतिः । अतश्च तत्र भवति नेयार्थत्व दोषः । रथाङ्गनामादिषु तु रूढिरिति न दोषः । दूषकताबीज च अशक्तवक्तृकत्वज्ञानाद्रसप्रकर्षबोधविधान । वृत्त्यभावेन अर्थानुपस्थितिस्तदिति केचित् । एतेन 'न तु लाक्षणिकार्थमित्यर्थः' इति कामाधेनुरपि व्याख्याता । समस्तमेक पदमिति वैयाकरणरीतिमाश्रित्य पदार्थदोषावसरे अस्योपन्यासः । हेमचन्द्रस्तु विशिष्टाभिप्रायेण मतान्तरानुसारेण वा इदमेव पद्य वाक्यदोषप्रकरणे निरूपितवान् ।
  2. 'अस्य दूषकताबीज च प्रसिद्धस्यैव द्रागुपस्थित्या विवक्षितस्य विलम्बेनोपस्थितिः । अत एव यमकादावदोषत्वम् , तत्रोपस्थितिविलम्बस्यापि सहृदयसंमतत्वेनाविलम्बानुद्देश्यत्वात् । इति प्रदीपकारः । ननु प्रसिद्धस्यापि अविवक्षितार्थस्य कथमुपस्थितिः, 'शब्दार्थस्यानवच्छेदे' इति प्रकरणादेर्नियामकस्य सत्त्वादिति चेत्, न तुल्यप्रसिद्धिकानेकार्थेष्वेव तथा नियमस्य तदर्थत्वादिति दिक् ।
  3. काश्चिल्लक्षणाः निरूढाः प्रसिद्धाः । ताश्च बोधकत्वरूपसामर्थ्यात् अभिधासमकक्ष्याः । काश्चिच्च प्रयोजनवशात् सांप्रत क्रियन्ते । काश्चिदपि रूढिप्रयोजनाभावेऽपि वक्तुरशक्तिमात्रेण नैव क्रियन्ते इति कारिकार्थः । निरूढलक्षणा तु शक्तितो नाममात्रेण भिद्यते इति भट्टः।