पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अ. १.
४५
कामधेनुसहिता।

कल्पितार्थं नेयार्थम् ॥ १३ ॥

 अश्रौतस्याप्युन्नेयस्य पदार्थस्य कल्पनात् कल्पितार्थं नेयार्थम् ।

यथा---

 'सपदि पङ्क्तिविहङ्गमनामभृत्तनयसंवलिनं बलशालिना ।

 विपुलपर्वतवर्षि शितैः शरैः प्लवगसैन्यमुलूकजिता जितम् ॥'

 अत्र विहङ्गमश्चक्रवाकोऽभिप्रेतः, तन्नामानि चक्राणि, तानि बिभ्रतीति विहङ्गमनामभृतो रथाः, पङ्क्तिः दश विहङ्गमनामभृतो रथा यस्य स पतिविहङ्गमनामभृत् दशरथः, तत्तनयाभ्यां रामलक्ष्मणाभ्यां संवलितं प्लवगसैन्यं जितम् । उलूकजिता इन्द्रजिता । कौशिकशब्देनेन्द्रोलूकयो- रभिधानमिति कौशिकशब्दवाच्यत्वेनेन्द्र उलूक उक्तः । ननु चैवं रथाङ्ग-

 नेयार्थं लक्षयति-- कल्पितार्थमिति । अश्रौतस्येति । संकेतसहायः शब्दव्यापारः, तद्विशिष्टः शब्दो वा श्रुतिः । तत आगतोऽर्थः श्रौतः, स न भवतीति अश्रौतः अनभिधेय इत्यर्थः । नन्विदमश्रौतत्वमर्थस्य किं लाक्षणिकत्वम् ? नेत्याह--- उन्नेयस्येति । 'अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते' इत्येवंलक्षणलक्षणाकक्ष्यामधिक्षिप्य कस्यचिदर्थस्य कल्पने कल्पितार्थम् , न तु लाक्षणिकार्थमित्यर्थः । उदाहरणमाह- यथेति । उदाहरणवाक्यार्थं विवृणोति---अत्रेति । पक्षिसामान्यवाचिना विहङ्गमपदेन तद्विशेषश्चक्रापरनामा चक्रवाको लक्ष्यते । 'कोकश्चक्रश्चक्रवाकः' इत्यमरः। तस्य नामेव नाम येषां तानि तन्नामानि चक्राणीत्यर्थः । पङ्क्तिरिति । पङ्क्तिच्छन्दसः पादस्य दशाक्षरात्मकत्वात् पङ्क्तिपदेन दशसंख्या लक्ष्यते । विपुलपर्वतवर्षीति प्लवगसैन्यविशेषणम् । कौशिकशब्देनेति । 'महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः ।' इत्यमरः । कौशिकशब्देनेन्द्रोलकयोरभिधानादित्यर्थः । उलूकशब्देन कौशिकशब्द उन्नीयते, तेनेन्द्रोऽभिधीयत इति उलूकजित्पदेन इन्द्रजिदुन्नीयत इत्यभिप्रायः । एवं तर्हि प्राचीनकविप्रयोगः पर्याकुलः स्यादिति शङ्कते-नन्विति । रथाङ्गनामादीनामित्यादिपदेन रथाङ्गपाणिप्रभृतीनां परिग्रहः । रथाङ्गनामादिपदानां चक्रवाकादौ