पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४
[अधि. २.
काव्यालंकारसूत्रवृत्तिः।

 एषां क्रमेण लक्षणान्याह-

रूढिच्युतमन्यार्थम् ॥ १२ ॥

 रूढेः च्युतं रूढिच्युतं रूढिमनपेक्ष्य यौगिकार्थमात्रोपादानात् , अन्यार्थं पदम् । स्थूलत्वात् सामान्येन घटशब्दः पटशब्दार्थ इत्यादिक- मन्यार्थे नोक्तम् ।

 यथा--'ते दुःखमुच्चावचमावहन्ति ये प्रस्मरन्ति प्रियसंगतानाम् ।'

 अत्र आवहतिः करोत्यर्थो धारणार्थे प्रयुक्तः, प्रस्मरतिर्विस्मरणार्थः प्रकृष्टस्मरणे इति[१]

 रूढिः प्रसिद्धिः, ततः च्युतं रूढिच्युतम् । रूढेषु पदेषु रूढिमनादृत्य यौगिकार्थे यत् प्रयुज्यते, तदन्यार्थं पदम् । ननु यत् घटादिपदं पटादिषु प्रयुज्यते, तत् अन्यार्थं पदं दुष्टमिति किमिति नोच्यत इत्याशङ्क्याह- स्थूलत्वादिति । पटादिषु प्रयुज्यमानं घटादिपदमन्यार्थमिति सामान्येन नोक्तम् । कुतः ? स्थूलत्वात् उत्तानबुद्धिभिरुपलब्धुं शक्यत्वात् । ये केचित् स्थूलमपि दोषमविज्ञाय तथा प्रयुञ्जते, ते पुनरविवेकिनः शासनयोग्या न भवन्तीति प्राक् प्रतिपादितम् । उदाहरणमुपदर्शयितुमाह --- यथेति । ये प्रियसंगतानां प्रणयप्रयुक्तसंबन्धानां प्रस्मरन्ति प्रकर्षेण स्मरन्ति । 'अधीगर्थदयेशां कर्मणि' इति कर्मणि षष्ठी । ते जनाः उच्चावचमनेकभेदम् । ' उच्चावचं नैकभेदम्' इत्यमरः । दुःखम् आवहन्ति धारयन्तीति कवेर्विवक्षितोऽर्थः । अन्यार्थत्वमुपपादयति- अत्रेति । आङ्पूर्वो वहिधातुः करोत्यर्थे रूढः । तथा च प्रयोगः, 'व्रीडमावहति मे स संप्रति व्यस्तवृत्तिरुदयोन्मुखे त्वयि ।' इति । स च रूढिमनादृत्य धारणे यौगिकार्थे प्रयुक्त इत्यन्यार्थत्वम् । प्रपूर्वः स्मरतिरपि विस्मरणार्थे रूढः । तथाच प्रयोगः,, 'नाक्षराणि पठता किमपाठि प्रस्मृतः किमथवा पठितोऽपि ।' इति । स च रूढिमगणयित्वा प्रकृष्टस्मरणे यौगिकार्थे प्रयुक्त इत्यन्यार्थत्वम् । किंच रूढिच्युतम्' इत्यत्र रूढीति सामान्येनोपात्तत्वाद्योगरूढिरपि परिगृह्यते । तेन पङ्कजादयः शब्दाः कुमुदादिषु न प्रयोज्याः ।

  1. इदं च नेयार्थ प्रकाशोक्तेषु अवाचकप्रभेदेषु अन्यतमम् । प्रकारान्तराणि तु तत एवावसेयानि।