पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०
[अधि. २.
काव्यालंकारसूत्रवृत्तिः।

 किमर्थं ते पृथक् प्रपञ्च्यन्त इत्यत्राह-

सौकर्याय प्रपञ्चः ॥ ३॥

 सौकर्यार्थः प्रपञ्चो विस्तरो दोषाणाम् । उद्दिष्टा लक्षणलक्षिता हि दोषाः सुज्ञाना भवन्ति ।

 पददोषान् दर्शयितुमाह-

दुष्टं पदमसाधु कष्टं ग्राम्यमप्रतीतमनर्थकं च ॥४॥

 क्रमेण व्याख्यातुमाह-

शब्दस्मृतिविरुद्धमसाधु ॥ ५ ॥

 शब्दस्मृत्या व्याकरणेन विरुद्धं पदम् असाधु ।

 यथा--' अन्यकारकवैयर्थ्यम्' इति । अत्र हि 'अषष्ठ्यतृतीया-

 आशङ्कामिमामपाकर्तुमनन्तरसूत्रं व्याचष्टे-- सौकर्यार्थ इति । दोषस्वरूपे हि प्रेक्षावतामुत्प्रेक्षितुं शक्येऽपि, व्युत्पित्सूनधिकृत्य प्रवृत्तत्वाच्छास्त्रस्य तैस्तु पदपदार्थवाक्यवाक्यार्थदोषाणां स्थूलसूक्ष्माणामुद्देशलक्षणपरीक्षाभिर्विना दुरवगमत्वात् तेषां दोषविवेकस्य सौकर्याय प्रपञ्च इत्यर्थः । उद्दिष्टा इति । उद्दिष्टाः नामतः परिगणिताः । लक्षिताः परस्परव्यावृत्ततया दर्शिताः । दोषाः, सुज्ञानाः सुखेन ज्ञातव्या भवन्ति । 'आतो युच्' इति खलर्थे युच्प्रत्ययः । अस्मिन्नधिकरणे लक्षणीया दोषाः काव्यस्यासाधुत्वापादकाः स्थूला इत्यवगन्तव्यम् । यद्वक्ष्यति- ये त्वन्ये शब्दार्थदोषाः सूक्ष्मास्ते गुणविवेचने वक्ष्यन्ते' इति ॥

 शब्दार्थशरीरं हि काव्यम् । अत्र शब्दः पदवाक्यात्मकः । अर्थश्च पदार्थवाक्यार्थरूपः । तत्र पदपदार्थप्रतिपत्तिपूर्विका वाक्यवाक्यार्थप्रतिपत्तिरिति क्रममभिसंघाय प्रथमं पददोषान् प्रतिपादयितुमाह-~-पददोषानिति । दुष्टं पदमिति प्रत्येकं संबन्धनीयम् ॥

 यथोद्देशं लक्षणं वक्तुमाह-- क्रमेणेति । शब्दस्मृतीति । शब्दशास्त्रमर्यादामुल्लङ्घ्य प्रयुक्तं शब्दस्मृतिविरुद्धम् । तदुदाहरति - अन्यकारकेति ।