पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
॥ द्वितीयमधिकरणम् ॥

 काव्यशरीरे स्थापिते काव्यसौन्दर्याक्षेपहेतवस्त्यागाय दोषा विज्ञातव्या इति दोषदर्शनं नामाधिकरणमारभ्यते ।

  दोषस्वरूपकथनार्थमाह-

गुणविपर्ययात्मानो दोषाः ॥ १ ॥

गुणानां वक्ष्यमाणानां ये विपर्ययाः, तदात्मानो दोषाः ।

अर्थतस्तदवगमः॥२॥

गुणस्वरूपनिरूपणात्तेषां दोषाणामर्थादवगमोऽर्थात्सिद्धिः।

  निष्कलङ्कनिशाकान्तगर्वसर्वंकषप्रभाम् ।
  कविकामगवीं वन्दे कमलासनकामिनीम् ॥

 दोषदर्शनं द्वितीयमधिकरणमारभ्यते । अधिकरणद्वयसंबन्धमेव बोधयति - काव्यशरीर इति । सौन्दर्यस्य गुणालङ्कारघटितचारुत्वस्य आक्षेपः स्वस्थानात् प्रच्यावनं तस्य हेतवस्तथाविधा दोषाः कविना ज्ञातव्या इत्यनेन दोषज्ञानस्यावश्यकर्तव्यतोक्ता । तेषामज्ञाने परित्यागात्मनः फलस्य दुर्लभत्वादिति भावः । दृश्यन्तेऽस्मिन् दोषा इति दोषदर्शनम् । अधिकरणार्थे ल्युट् ।

 दोषसामान्यलक्षणं वक्तुं सूत्रमवतारयति- दोषस्वरूपेति । गुणानामिति । विपरीयन्त इति विपर्ययाः विपरीताः । कर्मार्थेऽच्प्रत्ययः । त एवात्मानो येषां ते विपर्ययात्मनो विपरीतस्वरूपाः, न त्वभावरूपा इत्यर्थः । अनेन गुणविपरीतस्वरूपत्वं दोषसामान्यलक्षणमुक्तं भवति ।

 ननु गुणेष्ववगतेषु तद्विपर्ययस्वरूपा दोषा विनापि लक्षणोदाहरणाभ्यां सामर्थ्यात् प्रेक्षावद्भिरुत्प्रेक्षितुं शक्यन्ते । किं लक्षणादिप्रपञ्चनेनेत्याशङ्कासूत्रमनुभाषते--- अर्थत इति ।