पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४
[अधि. १.
काव्यालंकारसूत्रवृत्तिः।

काव्यं गद्यं पद्यं च ॥ २१ ॥

 गद्यस्य पूर्वं निर्देशो दुर्लक्षविशेषत्वेन दुर्वबन्धत्वात् । तथाहुः-- 'गद्यं कवीनां निकषं वदन्ति ।' इति ।

 तच्च त्रिधा भिन्नमिति दर्शयितुमाह--

 गद्यं वृत्तगन्धि चूर्णमुत्कलिकाप्रायं च ॥ २२ ॥

 तल्लक्षणान्याह--

नुपसर्गे' इति कर्मणि यत्प्रत्यय सति गद्यमिति रूपम् । यद्वा 'स्तनगदी देवशब्दे' इति चौरादिकणिजन्तात् · अचो यत्' इति यत्प्रत्यये सति गद्यमिति रूपम् , देवैः शब्दनीयं गद्यमिति । पादेषु भवं पद्यम् । शरीरमिति विवक्षायां — शरीरावयवाच्च' इति भवार्थे यत्प्रत्यये भसंज्ञायां पदादेशे च सति पद्यमिति रूपम् । अनेन पद्यसामान्यलक्षणं सूचितं भवति । तदुक्तं काव्यादर्शे, ‘पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ।' इति । गद्यस्य पूर्वनिर्देशे हेतुमाह-- गद्यस्येति। दुर्लक्षाः कृच्छ्रेण लक्ष्याः विशेषाः गुरुलघुनियमादयो यस्य तस्य भावः तेन हेतुना, दुर्बन्धं कृच्छ्रेण बन्धुं शक्यं तस्य भावस्तस्मात् पूर्वनिर्देशः, कृत इति शेषः । अत्राभाणकमपि दर्शयति-- तथाहुरिति । निकषो हेमादिकषणोपलः । 'निकषस्तु घृषिर्घृप्यो हेमादिनिकषोपलः । इति वैजयन्ती। कनकानामिव कवीनां प्रकर्षापकर्षपरीक्षास्थानमिति यावत् ॥

 गद्यभेदान् गणयितुमाह-- तच्चेति । वृत्तगन्धि क्वचिद्भागे वृत्तच्छायानुकारि । चूर्णपदेनोपचारात् व्यस्तपदसमाहारो लक्ष्यते । तेन व्यस्तपदबहुलं चूर्णम् । उत्कलिकाप्रायमिति । उत्कलिका उत्कण्ठा। 'उत्कण्ठोत्कलिके समे' इत्यमरः । उत्कलिकायाः प्रायः प्रयोगबाहुल्यं यस्मिंस्तत् उत्कलिकाप्रायं गद्यम् । यस्मिन् श्रूयमाणे श्रोतृणामुत्कण्ठा बहुला भवतीत्यर्थः । यद्वा कलिकाशब्दोऽत्र लक्षणया रुहरुहिकायां वर्तते। उल्लसन्ती कलिकां रुहरुहिकां प्रैति प्राप्नोतीत्युत्कलिकाप्रायम् । यत्र पदसंदर्भपरिपाटी काण्डोपकाण्डसंरोहशालिनी कलिकेवोल्लसति, तदुत्कलिकाप्रायमित्यर्थः ।

 विशेषलक्षणानि विवरीतुमाह-- तल्लक्षणानीति । वसन्ततिलकेति ।