पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०
[अधि. १.
काव्यालंकारसूत्रवृत्तिः।

नहि कलातत्त्वानुपलब्धौ कलावस्तु सम्यङ्निबन्धुं शक्यमिति ।

कामशास्त्रतः कामोपचारस्य ॥ ८ ॥

 संविदित्यनुवर्तते । कामोपचारस्य संवित् कामशास्त्रत इति । कामोपचारबहुलं हि वस्तु काव्यस्येति ।

दण्डनीतेर्नयापनययोः ॥ ९॥

 दण्डनीतेरर्थशास्त्रान्नयस्यापनयस्य च संविदिनि । तत्र षाड्गुण्यस्य यथावत्प्रयोगो नयः । तद्विपरीतोऽपनयः । नहि तावविज्ञाय नायकप्रतिनायकयोर्वृत्तं शक्यं काव्ये निबन्धुमिति ।

इतिवृत्तकुटिलत्वं च ततः ॥ १० ॥

 इतिहासादिः इतिवृत्तं काव्यशरीरम्', तस्य कुटिलत्वं ततो दण्ड-

चेतःप्रवेशश्च चतुःषष्टिरिमाः कलाः' । अन्या उपकला. प्रोक्तास्तासां संख्याचतुःशतम् । आभिरेव प्रपञ्चोऽयं वर्तते विजयी स्फुटम्' इति । अत्र ग्रन्थविस्तरभयादुपकलानामुद्देशो न कृतः । कलातत्त्वसंवित्तेरुपयोगं दर्शयति-- न हीति ॥

 कामोपचारबहुलमिति । वस्तु काव्यप्रतिपाद्यमितिवृत्तम् । काव्यस्य रसवत्त्वावश्यम्भावाद्रसस्य च शृङ्गारप्रमुखत्वात् तस्य च कामोपचारप्रचुरत्वात् , काव्यवस्त्वपि कामोपचारबहुलमिति भावः ॥

 दण्डनीतेरुपयोगं दर्शयति-- दण्डनीतेरिति । षाड्गुण्यस्येति । संधिविग्रहयानासनद्वैधीभावसमाश्रयाः षड्गुणाः । षड् गुणा एव षाड्गुण्यम् । स्वार्थिकः ष्यञ् ॥

 कुटिलत्वमिति । यथा तापसवत्सराजादौ । आबलीयसेति । अबलीयांसमधिकृत्य कृतमधिकरणमाबलीयसम् , तत्प्रभृतौ प्रयोगाः मित्रभेदसुहृल्लाभा-

 1. वात्स्यायनीयादिषु तु क्वचिद्भेद उपलभ्यते ।