पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. २.
१९
कामधेनुसहिता।

  विस्रब्ध्नैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले
   विश्रान्तिं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥'

ओजःकान्तिमती गौडीया ॥ १२ ॥

स्त्रिया' इत्येकशेषः; एवं मृगकुलमित्यत्राप्येकशेषो वेदितव्यः । निपानानि कूपसमीपतः कल्पिता जलाधाराः । 'आहावस्तु निपानं म्यादुपकूपजलाशये' इत्यमरः । तेषु सलिलम् । तदेव विशिनष्टि-शृङ्गैर्मुहुस्ताडितमिति । महिषा हि जलमवगाह्य दशतः शिरसि दंशानपवारयितुं श्रृङ्गैर्मुहुस्ताडयन्तीति स्वभावोक्तिः । गाहन्तामित्यादिषु सर्वत्र आमन्त्रणे लोट् । छायासु अनातपेषु बद्धानि कदम्बकानि समूहा येनेति विग्रहः । निकुरुम्बं कदम्बकम्' इत्यमरः । कदम्बकानां बहुत्वविवक्षायां मृगकुलस्य अन्यपदार्थत्वमुपपद्यते ; अतो न पौनरुक्त्यमाशङ्कनीयम् । उद्गीर्णस्य वावगीर्णस्य वा मन्थो रोमन्थः, चर्वितचर्वणमित्यर्थः । 'विस्रब्धं कुरुतां वराहविततिर्मुस्ताक्षतिं पल्वले' इति प्राचीनः पाठ इति संप्रदायविदः । पाठान्तरं तु प्रक्रमभङ्गशङ्काकलङ्कमङ्करयेत्। 'अस्मत्' इति पञ्चमीबहुवचनान्तं पृथक्पदम् । विश्राम्यतेव्यापारविरामार्थत्वात् पञ्चमी । षष्ठीसमासो वा । अत्र ओजःप्रसादादयो गुणाः परां प्रतिष्ठां लभन्ते । तथा हि- 'छायाबद्धकदम्बकम्' 'शिथिलज्याबन्धम्' इत्यत्र बन्धस्य गाढत्वादोजः । 'छायाबद्धकदम्बकं मृगकुलम्' इत्यत्र बन्धस्य गाढत्वशैथिल्ययोः संप्लवात्प्रसादः । 'महिषा निपानसलिलम्' इत्यत्र मसृणत्वाच्छलेषः । गाहन्ताम्' इत्यारभ्य येनैव मार्गेण उपक्रमः, तेनैव मार्गेण उपसंहार इति मार्गाभेदात्समता । 'गाहन्ताम् ' इत्यत्रारोहः । 'महिषाः' इत्यत्रावरोहः । एवमन्यत्रापि आरोहावरोहक्रमस्फुरणात्समाधिः । ' शृङ्गैर्मुहुस्ताडितम्' इति पृथक्पदत्वान्माधुर्यम् । रोमन्थमभ्यस्यतु' इत्यादौ बन्धस्याजरठत्वात्सौकुमार्यम् । 'शिथिलज्याबन्धमस्मद्धनुः' इत्यत्र बन्धस्य विकटत्वादुदारता । पदानामुज्ज्वलत्वात्कान्तिः । अर्थाभिव्यक्तिहेतुत्वादर्थव्यक्तिरिति दिङ्मात्रप्रदर्शनम् । गुणस्वरूपनिरूपणं तु गुणविवेचने अधिकरणे करिष्यते ।

 क्रमप्राप्तां गौडीयामाह-ओजःकान्तिमतीति । प्रत्ययार्थं प्रत्याययति-