पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
[अधि. १.
काव्यालंकारसूत्रवृत्तिः।

 किं पुनरियं रीतिरित्यत्राह-

विशिष्टा पदरचना रीतिः ॥ ७ ॥

 विशेषवती पदानां रचना रीतिः ।

 कोऽसौ विशेष इत्यत आह-

विशेषो गुणात्मा ॥ ८ ॥

 वक्ष्यमाणगुणरूपो विशेषः ।

 टनप्रगल्भस्फुरत्ताहेतुः कश्चन स्वभावोऽत्रात्मेत्युच्यते । ननु काव्यस्य आत्मेत्येतत् कथमुपपद्यते ; अशरीरभूतस्य आत्मावच्छेदकत्वासंभवादित्याशङ्कय, शब्दार्थयुगलं शरीरम् , तस्याधिष्ठाता रीतिर्नाम आत्मेत्युपपत्तिमुन्मीलयितुम् आकाङ्क्षितं पदमापूरयति—शरीरस्येवेति वाक्यशेष इति । अत्र रीतेरात्मत्वमिव, शब्दार्थयुगलस्य शरीरत्वमौपचारिकमिति मन्तव्यम् ।

 रीतेः काव्यशरीरं प्रत्यात्मत्वेनोक्तमुत्कर्षमुपश्रुत्य, कौतुकोत्कलिकाकरम्बितान्तकरणस्तां प्रतिपित्सुः पृच्छति- किं पुनरिति । किमित्यव्ययं प्रश्नार्थे । 'किमव्ययं च कुत्सायां विकल्पप्रश्नयोरपि ।' इति नानार्थरत्नमाला । इयं रीतिर्नाम किं पुनः किंलक्षणेत्यर्थः । प्रतिपित्सितमर्थं प्रतिपादयितुमनन्तरसूत्रमवतारयति--आहेति । विशिष्टा इति पदं व्याचष्टे-विशेषवतीति। पदानामिति। अर्थेष्वौपचारिकी रीतिरङ्गीकर्तव्या; अन्यथा अर्थानामात्मभूतरीतिवैधुर्ये काव्यशरीरान्तःपातो दुष्करः । यद्वक्ष्यति, 'तस्यामर्थगुणसंपदास्वाद्या' 'सापि वैदर्भी तात्स्थ्यात्' इति ।

 किमयं वैशेषिकपरिभाषितः पञ्चमः पदार्थो बिशेषः, अन्यो वेति संदिहानः पृच्छति--कोऽसाविति। विवक्षितं विशेष विवरीतुं सूत्रमवतारयति--आहेति । गुणात्मा ओजःप्रसादादिगुणस्वभाव इत्यर्थः ।

 1 एतेन 'यत्तु वामनेनोक्तम् , रीतिरात्मा काव्यस्येति–तन्न । रीतेः सघटनाविशेषत्वात् , सघटनायाश्चावयवसस्थानरूपत्वात्, आत्मनश्च तद्भिन्नत्वात्' इति दर्पणोक्ति प्रत्युक्त्ता।