पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अ. २.
१५
कामधेनुसहिता।

न खलु शास्त्रं अद्रव्येषु अविवेकिषु अर्थवत् ।

 निदर्शनमाह-

न कतकं पङ्कप्रसादनाय ॥ ५ ॥

नहि कतकं पयस इव पङ्कस्य प्रसादनाय प्रभवति ।

अधिकारिणो निरूप्य रीतिविनिश्चयार्थमाह-

रीतिरात्मा काव्यस्य ॥ ६ ॥

रीतिर्नामेयमात्मा काव्यस्य । शरीरस्येवेति वाक्यशेषः ।


तद्रव्यमिह विवक्षितम् । तद्विपरीतान्यद्रव्याणि गुणहीना अविवेकिन इति यावत् । अत्र गाथा, 'अयं भस्मनि होमः स्यादियं वृष्टिर्मरुस्थले । इदमश्रवणे गानं यज्जडे शास्त्रशिक्षणम् ॥' इति ।

 प्रतिपादितं प्रमेयं प्रसिद्धदृष्टान्तेन स्पष्टयितुमाह-निदर्शनमिति । कतकं अम्भःप्रसादनबीजम् । 'कतकं मेदनीयं च श्लक्ष्णं वारिप्रसादनम् ।' इति वैद्यनिघण्टुः ।

 प्रकरणोचितां संगति प्रकटयन्नुत्तरसूत्रमवतारयति-अधिकारिण इति। कर्तृनिरूपणानन्तरं कर्मनिरूपणमुचितमिति संगतिः । व्याचष्टे-रीतिर्नामेति । रिणन्ति गच्छन्ति अस्यां गुणा इति, रीयते क्षरत्यस्यां वाङ्मधुधारेति वा रीतिः । अधिकरणार्थे क्तिन्प्रत्ययः । करङ्कगात्रकल्पकर्कशतर्कवाक्यवैलक्षण्यप्रक-

 1. 'काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वः' इत्यानन्दवर्धनः । 'शब्दार्थौ मूर्तिराख्यातौ जीवितं व्यङ्ग्यवैभवम्' इति विद्यानाथः । 'बाग्वैदग्ध्यप्रधानेऽपि रस एवात्र जीवितम्' इत्यग्निपुराणम् । 'काव्यस्यात्मनि सङ्गिनि रसादिरूपे न कस्यचिद्विमतिः' इति व्यक्तिविवेक । 'ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः' इति काव्यप्रकाशः । 'अलंकारास्त्वलकारा गुणा एवं गुणाः सदा । औचित्यं रससिद्धस्य स्थिर काव्यस्य जीवितम्' इति क्षेमेन्द्रः । 'वक्रोक्तिः काव्यजीवितम्' इति वक्रोक्तिजीवितकारः । एतद्भेदसाधुत्वादिविचारस्तु वृत्तिवार्तिकव्याख्याने कृतोऽस्माभिः ।