पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
द्वितीयोऽध्यायः॥

प्रयोजनस्थापना । अधिकारिनिरूपणार्थमाह-

अरोचकिनः सतृणाभ्यवहारिणश्च कवयः ॥ १ ॥

 इह खलु द्वये कवयः संभवन्ति-अरोचकिनः, सतृणाभ्यवहारिणश्चेति । अरोचक्रिसतृणाभ्यवहारिशब्दौ गौणार्थौ । कोऽसावर्थः ? विवेकित्वमविवेकित्वं चेति ।

    कवीन्दकैरवानन्दसुधास्यन्दपटीयसीम् ।
    विमिन्दाना तमस्पन्दं वन्दे वाङ्मयचन्द्रिकाम् ॥

 प्रयोजने काव्यम्य प्रतिष्ठापिते तदर्थितया अधिकारिणो निरूपर्णाया इत्यध्यायद्वयसंगतिमधिगमयति -- प्रयोजनेति । काव्यप्रयोजनस्य स्थापना, कृतेति शेषः । तिष्ठतेर्य॑न्तात् ‘ण्यासश्रन्थो युच्' इति युच्प्रत्ययः । अधिकारीति । अधिकारः प्रयोजनस्वाम्यम् , तद्वान् अधिकारी । तदुक्तं दशरूपके 'अधिकारः फलस्वाम्यमधिकारी च तत्प्रभुः ।' इति । अरोचकिन इति । कृष्णसर्पपदन्यायेन अरोचकशब्दस्तत्पुरुषमेवावगमयतीति 'कृष्णसर्पवदरण्यम्' इतिवत् 'अरोचकिनः' इति प्रयुक्तं न त्वरोचका इति । अतः न कर्मधारयान्मत्वर्थीयः' इति निषेधस्यानवकाश । अरोचको नाम व्याधिविशेषः । यदाह वाग्भटः, 'अरोचको भवेद्दोषैर्जिह्वाहृदयसंश्रितैः।' इति ! सतृणमिति, 'अव्ययं विभक्ति' इत्यादिना साकल्यार्थेऽव्ययीभावः । सतृणमभ्यवहरन्तीति सतृणाभ्यवहारिणः । द्वय इति । 'प्रथमचरम' इत्यादि सूत्रे तयपः परिगणनात् , 'द्वित्रिभ्यां तयस्यायज्वा' इति तत्स्थानिकायजन्तोऽपि स्थानिवद्भावात्सर्वनामसंज्ञां भजते; अतः प्रथमाबहुवचनान्तं 'द्वये' इति रूपम् । ननु किमनेन प्रकृतानुपयोगिना अरोचकित्वादिविचारेणेति चेदत आह-~~ अरोचकीति । गौणार्थाविति । सादृश्यमूलकलक्षणाव्यापारेण लक्षितार्थावित्यर्थः । गौणार्थस्वरूपं जिज्ञासुः पृच्छति-कोऽसाविति । पृष्टमर्थ स्पष्टमाचष्टे---विवेकित्वमिति