पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२
[अधि. १.
काव्यालंकारसूत्रवृत्तिः।

  तस्मात्कीर्तिमुपादातुमकीर्तिं च व्यपोहितम् ।
  काव्यालंकारशास्त्रार्थः प्रसाधः कविपुंगवैः ॥

   इति काव्यालंकारसूत्रवृत्तौ शारीरे
   प्रथमेऽधिकरणे प्रथमोऽध्यायः ।

अस्यालंकारशास्त्रस्य सौन्दर्यापरपर्याये अलंकारे परमप्रतिपाद्ये साक्षात्प्रतिपाद्यत्वेन दोषगुणालंकारा विषयाः, हेयोपादेयतया तव्युत्पादनं प्रयोजनम् , तस्य च प्रयोजनं सत्काव्यकरणम् , तस्य च कीर्त्यादयः, तत्र कवीनां प्रीतिः । शास्त्रस्य विषयस्य च प्रतिपाद्यप्रतिपादकभाव. संबन्धः; काव्यस्य कीर्त्यादेश्च कार्यकारणभाव इति प्रथमाध्यायप्रमेयसंग्रहः ।

 शारीर इति । प्रथम काव्यशरीरम् , तदनु दोषाः, ततो गुणाः, तदनन्तरमलंकाराः, ततः शब्दप्रयोगशैलीति क्रमेण पञ्चाधिकरणानि । तत्र काव्यशरीरमधिकृत्य कृतमिति शारीरमधिकरणम् । अधिक्रियन्तेऽवान्तरप्रमेयरूपाणि प्रकरणान्यस्मिन्महाप्रमेयात्मनीत्यधिकरणं' प्रमेयविरतिस्थानम् । अध्यायः अवान्तरप्रमेयविरामस्थानम् ! ' प्रमेयविरतिस्थानमध्यायश्च प्रपाठकः ।' इति वैजयन्ती।

इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत्ति-

व्याख्यायां काव्यालंकारकामधेनौ शारीरे

प्रथमेऽधिकरणे प्रथमोऽध्यायः॥


 1. 'विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽधिकरण स्मृतम् ॥' इति त्वन्यत्र दृश्यते ।