पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अ १.]
कामधनुसहिता।

व्यम् - यत्काव्यमुपादेयं न भवतीति, तत्कस्य हेतोः ? न तावदृषिप्रणीतत्वाभावादनुपादेयत्वम् , वाल्मीकिबोधायनप्रभृतिभिरपि महर्षिभिः काव्यस्य प्रणयनात् । नापि पुरुषप्रणीतत्वात् , शास्त्रनिबन्धनानामपि तथात्वेनानुपादेयत्वप्रसङ्गात् । न च काव्यत्वात् , रामायणादावनैकान्तिकत्वात् । तस्यापि पक्षसमत्वशङ्कायामेकैकाक्षरोच्चारणेऽपि 'फलविशेषवचनविरोधः । नापि दृष्टप्रयोजनाभावात् , दृष्टप्रयोजनानां बहूनामुपदिष्टत्वात् । तथा चोक्तं काव्यप्रकाशे, 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥' इति । नाप्यदृष्टप्रयोजनाभावात् , स्वर्गापवर्गलक्षणम्यादृष्टप्रयोजनम्य शिष्टैरनुशिष्टत्वात् यदाहुः, 'धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीर्ति प्रीति च साधुकाव्यनिषेवणम् ॥' इति । काव्यादर्शेऽपि ' चतुर्वर्गफलायत्तं चतुरोदात्तनायकम्।' इति । इहापि ' काव्यं सत्....' इति वक्ष्यमाणत्वाच्च । अथ मन्यसे 'काव्यालापांश्च वर्जयेत् ' इति निषेधवचनादनुपादेयत्वं काव्यस्येति, तदप्यनालोचितचतुरम् । काव्यालापनिषेधवचनस्यासत्काव्यविषयत्वेन व्यवस्थापनात् । यदाह विद्यानाथः, “यत्र पुनरुत्तमपुरुषचरितं न निबध्यते तत्काव्यं परित्याज्यमेव । तद्विषया च स्मृतिः, काव्यालापांश्च वर्जयेदिति' इति । न केवलं विषयवैगुण्येनासाधुत्वं काव्यस्य, किंतु प्रबन्धुः प्रतिभादौर्बल्यकुलवैकल्याभ्यामपि भवति । तदुक्तं काव्यादर्शे, 'तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथंचन । स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम् ॥' इति । कविगजाङ्कुशे, 'शुनीदुग्धमिव त्याज्यं पद्यं शूद्रकृतं बुधैः । गवामिव पयो ग्राह्यं काव्यं विप्रेण निर्मितम् ॥' इति । उत्तमपुरुषकथाकथनं तु काव्यं ग्राह्यमेव । तदुक्त भामहेन, ‘उपश्लोक्यस्य माहात्म्यादुज्ज्वलाः काव्यसंपदः ।' इति । भट्टोद्भटेनापि फणितम् , 'गुणालंकारचारुत्वयुक्तमप्यधिकोज्ज्वलम् | काव्यमाश्रयसंपत्त्या मेरुणेवामरद्रुमः ॥' इति । भोजराजेनापि कथितम् , 'कवेरल्पापि वाग्वृत्तिद्वित्कर्णावतंसति । नायको यदि वर्ण्येत लोकोत्तरगुणोत्तरः ॥' इति । किं बहुना । प्रतिपाद्यमहिम्ना प्रबन्धप्रशस्तिरिति शास्त्राणामपि समानमेतत् । तथा हि । न्यायवैशेषिकशास्त्रयोरिश्वरप्रतिष्ठापकतया पूवर्वोत्तरमीमांसयोधर्मब्रह्मप्रतिपादकतया च महनीयत्वम् । तत्त्वचिन्तायां तु शास्त्राणामपि काव्यमुखप्रेक्षितया कार्यकारित्वमित्युपनिषत् । यदाहुः, 'स्वादुकाव्यरसोन्मिश्रं

उपनिषत् रहस्यं सिद्धान्त इति यावत् । 'रसम्योपनिषत्परा' इति ध्वन्यालोके ।