पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. १.
कामधेनुसहिता।

सपन्नोडपि, व्याख्यातृश्रोतृणामविघ्नव्याख्यानश्रवणलाभाय ग्रन्थादौ तन्मङ्गलनिबन्धनपूर्वकं तत्रवृत्तिसिद्धये विषयप्रयोजनादि निर्दिश्य दर्शयन्नाद्येन पद्येन कर्तव्यं प्रतिजानीते--प्रणम्येति । भक्तिश्रद्धातिशयलक्षणः प्रर्कषः प्रशब्देनात्र प्रकाश्यते, तादृगेव हि मङ्गलमन्तरायसंतानशान्ति संतनोति । अन्यथा कृतायामपि नतौ प्रारिप्सितग्रन्थपरिसमाप्तिं न संपादयेत् , किरणावल्यादौ तथा दर्शनात् । अथ कथमिह नमिः सकर्मकः स्यात् , प्रह्लीभाववृत्तेरस्याकर्मकत्वात् ‘नमन्ति शाखा नवमञ्जरीभिः' इत्यादिप्रयोगदर्शनाच्च । न चायमुपसर्गवशात्सकर्मकः , प्रशब्दस्य प्रकर्षमात्रार्थत्वेन कर्मसंबन्धोपपादकत्वायोगात्; ‘नमामि देवम्' इत्यादावुपसर्गस्याप्यभावात् । न चायमन्तभावितण्यर्थः, अनौचित्यप्रसङ्गादिति-- तदेतत्पाणिनिफणितिपारायणपरिणतान्तःकरणानामस्माकं चेतसि चोद्यं न चातुरीमाचरति । तथा हि । यथा जयतिरकर्मकः प्रकर्षेण वर्तने, पराजये तु सकर्मकः ; तथा नमिधातुः क्वचित्प्रह्वीभावार्थः, क्वचिन्नमस्कारार्थश्च भवति । तत्र यदा प्रह्लीभावमात्रविवक्षया प्रयुज्यते, तदानीमेषोऽकर्मकः । यदा नमस्कारार्थविवक्षया प्रयुज्यते, तदा सकर्मक इति विवेकः । यद्येवं तर्हि ‘देवं प्रणतः' इत्यत्र कर्तरि क्तप्रत्ययो न सिध्येत्, ‘सकर्माकर्मकाद्धातोः क्तो भवेत्कर्मभावयोः' इति सकर्मकाद्धातोः कर्मणि क्तविधानात् , 'गत्यर्थाकर्मकादिषु नमेः परिगणनाभावाच्चेत्यपि न चोदुनीयम्। 'व्यवसितादिषु क्तः कर्तरि चकारात्' इतीहैव वक्ष्यमाणेन सूत्रेण नमेरपि कर्तरि क्तप्रत्ययसंभवात् । व्यवसितः प्रतिपन्न इत्यादिषु गत्यर्थादिसूत्रे चकारानुक्तसमुच्चयार्थात्कर्तरि क्तप्रत्ययो भवतीति हि तस्य सूत्रस्यार्थः । परमं परिदृश्यमानज्योतिःपरिपाटीमतिवर्तमानम् । ज्योतिः चिन्मयम् । ‘परमं ज्योतिः प्रणम्य' इत्यत्र वाक्यार्थसामर्थ्येन, निखिलनिगमनीरजराजिराजहंसस्य परमहंसभावनापदवीदवीयसः परस्य ब्रह्मणो यत्पारमार्थिक रूपम्, तदेव प्रणिधान बलेन प्रमुषितविषयान्तरप्रसङ्गे प्रहर्षतरङ्गितेऽन्तःकरणे प्रत्यक्षतोऽनुभवन्प्रणामप्रचयेन पर्यचदिति प्रतीतेः परमयोगित्वमस्य प्रबन्धुः प्रत्याय्यते । वामनेनेति । निजनामर्निर्देशो यशःप्रकाशनाय । कवीन् प्रीणातीति कविप्रीः ‘अन्येभ्योऽपि दृश्यते' इति किप्प्रत्ययः । तेन कविप्रियेति तृतीयान्तं कर्तृविशेषणम् , कवीनां प्रियेति प्रथैमान्तं वा कर्मविशेषणम् । काव्येति । कवनीयं काव्यम्' इति |

गत्यर्थाकर्मश्लिषपशीङ्स्थासवसञ्जनरुहजीर्यतिभ्यश्च । ३-४-७२,